पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अतिथिपूजा ] उज्ज्वलोपेते द्वितीयः प्रश्नः । श्वो भूते यथामानसं सर्पयित्वा संसाधयेत् ॥ १॥ अपरेटुस्तमन्विष्य यथामानस यथेच्छं तर्पयित्वा संसाधयेत् गच्छन्तम. नुब्रजेत् ॥ १॥ आ कुत इत्यत आह- यानवन्तमा यानात् ॥ २ ॥ स चेदतिथिर्यानवान् भवति, तमा तस्याऽऽरोहणादनुवजेत । यावन्नाजानीयादितरः ॥ ३ ॥ इतरो यानरहितो यावन्नाऽनुजानीयात् गच्छेति, तं तावदनुव्रजेत् ॥३॥ अप्रतीभायां सीम्नो निवर्तेत ॥ ४ ॥ यदि तस्याऽन्यपरतयाऽनुज्ञायां प्रतीभा बुद्धिर्न जायते, ततस्सीम्नि प्राप्ता. यां ततो निवर्तेत । प्रदीर्घछान्दसः। 'संसाधये' दित्यादि सर्वातिथि- साधारणम् ! म निराकृतमानविषयम् ॥४॥ सर्वान्वैश्वदेवे भागिनः कुर्वीता श्वचण्डालेभ्यः ॥६॥ वैश्वदेवान्ते भोजनार्थमुपस्थितान् सर्वानेव भागिन. कुर्वीताऽऽश्व वण्डा- लेभ्यः । अभिविधावाकार ! तेभ्योऽपि किञ्चिद्देयम् । तथा च मनु:- (१)'शुनां च पतितानां च श्वपचा पापरोगिणाम् । वयसां च क्रिमीणां च शनर्निर्वभुवि ।। इति ॥ ५ ॥ नाऽनहङ्ग्यो दधादित्येके ॥ ६ ॥ अनहद्भ्यश्चण्डालादिभ्यो न दद्यादित्येके मन्यन्ते । तत्र दानेऽभ्युदयः । अदाने न प्रत्यवायः॥६॥ उपेतः स्त्रीणामनुपेतस्प चोच्छिष्टं वर्जयेत् ॥ ७ ॥ उपेतः कृतोपनयनोऽसमावृत्तः । स खाणामनुपेतस्य चोच्छिष्ट वर्जयेत् न भुजीत । एवं सति समावृत्तस्योच्छिष्टं भुञानस्य न दोषः स्यात् । एवं तहि उपेत आन्तात् कृतदारोऽकृतदारश्च स्त्रीणामनुपेतस्य चोच्छिष्टं व- र्जयेत् । एवमप्युपेतस्य यस्य कस्यचिदपि यदुन्छिष्टं तद्भोजने न दोषः स्यात् । पितुज्येष्ठस्य च भ्रातुरुच्छिएं भोक्तव्यम् (१.४ ११) इत्येतन्निय- मार्थ भविष्यति-पितुरेव मातुरेवेति। यद्येवं सुत्रमेवेदमनर्थकम्।तस्मादेव १.म. स्म.३.९२.