पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [ (प.४.)क.८. उक्त उपकारः, अत्र चोदयक्ति---- शब्दार्थारम्भणानां तु कर्मणां समानाथसमाप्ती वेदशब्दस्तच सथा विप्रतिषिद्धा॥ १२ ॥ शब्दार्थतया यान्यारभ्यन्ते र प्रत्यक्षादिप्रमाणगोचरतया, तानि शब्दार्थारम्भमानि कईणि वैदिकान्यग्निहोत्रादीनि । तेषां समाम्नाय उप देशः । तस्य समाप्तौ स यावना प्रथजातेन समाप्तोऽनुष्ठानपर्यन्तो म वति, तत्र वेदशब्दो वर्तते । वेदयति धर्म विदल्यनेनेति या धर्मामति । नवमन्त्रबाहमणमात्रेणाऽनुष्ठानपर्यन्त उपदेशो भवति । किं तु कल्प. सूत्रैरपि सह । ततश्च तेषामपि वेदस्वरूप एषानुप्रवेशात् पञ्चैवाइमानि । तत्र षट्संख्या विप्रतिषिद्धेति ।। १२ ।। परिहरति- अङ्गानां तु प्रधानैरव्यपदेश इति न्यायवित्समयः॥१३॥ अङ्गान्येव कल्पसूत्राणि न वेदस्वरूपाणि । पौरुषेयतया स्मरणात्। कतिपचान्येव हि तेषु ब्राह्मणवाक्यानि, भूयिष्ठानि स्ववाक्यानि । अङ्गानां च तेषां प्रधानवाधिभिशब्दैः छन्दो खेदो ब्राह्मणमित्यादिभिर्वपदेशो न न्याय्य इति न्यायविदा सिद्धान्तः। ताविमौ पूर्वपक्षसिद्धान्तौ (१)कल्प सूत्राधिकरणे स्पष्ट द्रष्टव्यो। यत्तूतं न मन्त्रब्राह्मणमात्रेण पूर्ण उपदेश इति । नैष स्थाणोरपराधो यदेनमन्धो न पश्यतीति, पुरुषापराधस्स भवति । इदं तु भवानाचष्टाम्-कल्पसूत्रकाराणामियं ग्रयोगकल्पना कु. तस्त्येति । न्यायोपबृंहिताभ्यां मन्त्रब्राह्मणाम्यामिति वक्तव्यम् । नान्या गतिः । एवं सति भवानपि यततां ताशरस्यामिति । ततो मन्त्रनाम- णाभ्यामेव पूर्णभवमोत्स्यत इति ॥ १३ ॥ अतिथि निराकृत्य यन्त्र गते भोजने स्मरेत्ततो घिरम्योपोष्य ॥१४॥ अतिथिमा केनचित्प्रकारेण निराकृत्य भोजने प्रवृचो यत्र गते य. दवस्थाप्राप्त भोजने स्मरेत्-धिनया स निराकृत इति, तत्रैव भोजना. द्विरम्य तरिमन्नहन्युपोण्य ॥१४॥ इत्यापस्तम्बधर्मसूत्रे उज्वलोपेते द्वितीय प्रश्नेऽष्टमी कण्डिका ।। ८॥ १. पू. मी १. ३. ९. कल्पसूत्राणां बौधायनापस्तम्बादिप्रणीतानां यत्र साक्षादित्वनि राकरणं क्रियते किन्तु वेदमूलत्वेनैव प्रामाण्यं स्याप्यते । तत् कल्पसूत्राधिकरणम् ॥