पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्रात्यसंस्कारः]] उज्वलोपेले प्रथम प्रश्नः । बदि' त्यादिनीतेन वामदेव्येन साम्ना, आशिरसेन(१) "हंसाशुचिषदि स्यनेन एतैरञ्जलिना शिरस्यपोऽवसिञ्छेत् ॥ २ ॥ अपि वा व्याहृतिभिरेव ॥ ३ ॥ पूर्वैः सह व्याहतीनां विकल्पः ॥ ३ ॥ अधाऽध्याय:॥४॥ गत्तम। तब 'यस्य पितापितामह' इन्युपक्रमे 'यस्येत्येकवचनमन्तेऽप्यध्या- प्य' इति । मध्ये तु 'ब्राहलस्तुताः' 'तेषामभ्यागमनं तेषामिच्छता'. मिति बहुवचनम् । तत्रोपक्रमोपमहारानुसारेण माणवकस्यैव प्राय. श्चित्तमुपनयनमध्यापन च । बहुवचन तु तथाविधप्राणयकबद्भुत्वापे क्षमित्यवोचाम ॥ ४॥ अथ यस्य प्रपितामहादि नानुस्मयंत उपनयन ते इम. शानसंस्तुताः ॥ ५ ॥ प्रपितामहादि प्रपितामहादारभ्य प्रपितामहः पितामहः पिता स्वयं बयथाकालमिति । ते तथाविधा माणकाः श्मशान स्तुता. । एतेन (२) इमशाने सर्वतः शम्याप्रासा' दित्यध्ययननिषेध एषामपि सन्निधौ भवति ॥ ५॥ तेषामभ्यागमनं भोजनं विवाहमिति च वर्जयेत्तेषामि- च्छतां प्रायश्चित्तं द्वादश वर्षाणि त्रैविधकं ब्रह्मचर्य चरेदधोपनयनं(३)तात उदकोपस्पर्शनं पावमान्या. दिभिः॥ ६ ॥ गतम् । पावमायादिभिरित्यनेनैव प्रतिपूरुषं सङ्खयाय सम्बत्सरा. नित्येतदपि द्रष्टव्यम् ॥६॥ अथ गृहमेधोपदेशनम् ॥ ७ ॥ गृहमेधो गृह्यशास्त्रं गृहस्थधर्मो वा ॥ ७ ॥ १. हश्मशुचिषतसुरन्तरिक्षसोता वेदिषदतिथि दुरोणसत् । नृषद्वरसदृतसोमस दब्जा गोजा ऋतजा अद्विजा त बृहत्" (तै सं. ४ २ १ ४.) इत्याङ्गिरस ।। २ आप. ध १९.६. ३. ततस्संवत्सरमुदकोपस्पर्शनम् . इति ग. पु. ।