पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अतिथिपूजा उज्ज्वलोपेते प्रथमः प्रश्ना। धीत्य श्रोत्रियो भवति । पुरुषस्य हि प्रतिवेदमेकैका शाखा भवति । या वैः परिगृहीताऽध्ययनानुष्टानाभ्यां सा प्रतिवेदं स्वशाखा । तामधीत्य श्रोत्रियो भवति, न तु प्रतिवेदमैकेकामधीत्य श्रोत्रियो भवतीति। लोक- विरोधात् । लोके हियां कांचनका शाखामधीयानः श्रोत्रिय इति प्रसिद्धः। अतिथिलक्षणमाह- (१)स्वधर्मयुक्तं कुटुम्बिनमभ्यागच्छति धर्मपुरस्कारो (२)नाऽन्यप्रयोजनः सोऽतिथिभवति ॥५॥ आदितो यच्छब्दो द्रष्टव्यः । अन्ते स इति दर्शनात् । मध्ये च ओ. त्रियलक्षणोपदेशात् । तदुपजीवनेन सूत्रं योज्यम् । यः श्रोत्रियः स्वधर्म- युकं स्वधर्मनिरत कुटुम्बिन भार्यया सह वसन्तं गृहस्थ । आश्रमा न्तरनिरालार्थमिदमुक्तम् । न हि ते पचमाना भवन्ति । भिक्षवो हि ते । अभ्यागच्छति उदिश्यागच्छति । धर्मपुरस्कार (३)आचार्याद्यर्थ भिक्षणं धर्मः त पुरस्करोतीति धर्मपुरस्कारः । कर्मण्य । धर्मप्रयोजनः नान्यप्र- योजनः ! य एवभून एवभूनमुद्दिव्याऽगच्छन्ति नान्येच्छा सोऽति- पिरिति । (४)बोधायनस्तु श्रान्तोऽपूर्व केवलमशार्थी नाऽन्यप्रयोजन- स्सोतिथिर्भवति । अथवा सर्ववर्णानामन्यतमः काले यथोपपन सर्व षामतिधीनां श्रेष्ठोऽतिथिर्भवती"ति ॥ ५ ॥ तस्य पूजा शान्ति: स्वर्गश्च ॥ ६ ॥ तस्यातिथेः पूजायां कृतायां शान्तिरूपद्रवाणामिह भवति । प्रेत्य च स्व. गेलामः॥६॥ तमभिमुखोऽभ्यागम्य यथावयस्समेत्य तस्या. सनमाहारयेत् ॥ ७ ॥ तमतिथिमभिमुखोऽभ्यागच्छेत् । अभ्यागम्य यथावयः वयसोऽनुरूपं प्र त्युत्थानाभिवादनादिना समेयात सङ्गच्छेत । समेत्य च तस्यासनमाहारयेत् शिष्यादिभिः । अभावे स्वयमाहरेत् ॥ ७॥ शक्तिविषये नाऽबहुपादमासनं भवतीत्येके ॥ ८ ॥ १. एतदादि ११ सूत्रार्ध यावदेकीकृतम् छ. यु २. नानप्रयोजनः इति क पु. ३ आचार्यस्याथै इति. घ. ड.पु. ४. एतदादि ११ सूत्रे निवेशितं छ. पु. आप.ध०२६