पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गृहस्थधर्माः उज्वलोपेते द्वितीय प्रश्नः। यैः पुरुष आसान्यते बहिराकम्यते । ते आसावाः शब्दादयो विष- याते विशेष्यन्ते त्वमिछश्नादरारम्भणान् आरभ्यन्ते(१) आलम्ब्यन्त इत्यार- म्भणाः । तत्र स्वगालम्बना सक्चन्दनादयः। शिश्नालम्सनाः स्युपसो मादयः । उदरालम्बना (२)भक्ष्यभोज्यादयः। उपलक्षणं त्वगादिग्रहणम्। एवंभूतानातावान् मनादिभिः पञ्चभिरिन्द्रियैः परिक्षानस्सर्वतो वर्ज- यम् अमृतत्वाय मोक्षाय कल्पते । तत्र दागिति रसनेन्द्रियमाह । इति ब्राणम् ॥१८॥ प्राण इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने पञ्चमी कण्डिका ॥५॥ इति चाऽऽपस्तम्बधर्मसुत्रवृत्तौ हरदत्तविरचितायामुज्ज्वलाया द्वितीयप्रश्ने द्वितीयः पटलः ॥ २॥ १. आलभ्यन्ते इति पु. २. अभक्ष्या अनोज्यादयः इति. क, च, पु.