पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः॥ आपस्तम्बधर्मसुत्रे उज्वलोपेते अथ द्वितीयः प्रश्नः ।। पाणिग्रहणादधि गृहमेधिनोव्रतम् ॥१॥ पूर्वस्मिन् प्रश्न आधयो' पटलयोः प्रायेण ब्रह्मचारिणो धर्मा उक्ताः ! इतरेश्वष्टसु सर्वाश्रमाणाम् । एकादशे समावृत्तस्थ । इहानी पाणिग्रहणा. दारभ्य कर्तव्यानि कर्माण्युच्यन्ते । पाणियस्मि(१)नहनि गृह्यते तत्पा. णिग्रहणम्(२)। अधिशब्द ऊर्ध्वार्थ वर्तते । तस्मादूर्व गृहमेहघिनोहस्था- श्रमवतोः यद्धृतं नियत कर्तव्यम, जातावकवचनम, तदुच्यते । 'पाणि- ग्रहणादधीति वचनं(३) भार्यादिरग्नियादिति शास्त्रान्तरोक्तो वि- कल्पोमा भूदिति । 'गृहमेधिना रिति द्विवचनमन्यतरमरणे मा भूदि. ति(४)। वैश्वदेवं तु विधुरा अपि कुर्वन्ति ॥ १ ॥ कालयोभोजनम् ॥२॥ कालयोरुभयोरपि भोजन कर्तव्यम्-सायं प्रातच, नाऽन्तरेति परिस: सधेयम्, भोजनस्य रागमाप्तत्वात् । मानवे च स्पटमुक्तम्- (६) सायं प्रातर्विजातीनामशनं श्रुतिचोदितम् । नाऽन्तरा भोजनं कुर्यादग्निहोत्रसमो विधिः ॥' इति । अन्ये तु नियमं मन्यन्त(६) शक्ती सत्यां गृहमेधिनोरुभयोरपि कालयोरवश्य भोक्तव्य प्राणाग्निहोत्रस्याऽलोपायेति । १. यस्मिन् कर्मणि इति, क ड. पु. २. चतुर्थीकान्तो विवाह हत्यधिक ड पु ३. गो. ध ५७ ४. अनेकभार्यस्य एकस्यामपि सत्या भवत्येव । अनेकाश्रितस्याऽधिकारस्य विद्यमा- नत्वाच्छास्त्रान्तरत्वाच्च । इत्यधिक क पु. ५. वचनामिद मुदितमनुस्मृतिकोशेषु नाऽस्ति । पर तु बहुषु निबन्धेपु परं मान- वत्वेनोफ्न्यस्तम् । ६. शक्तौ सत्या कालयोर्वर्जने च प्राणाग्निहोत्रलोपः । तस्यालोपाय कालयोरवश्य भोजन कर्तव्यमिति द पुस्तके पाठः । आप० ध०२३