पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [(५११.)क. ३२. धर्मग्रहाद त्वयेद कृतमिति वक्तव्ये इतरस्य नाऽस्तीत्युक्तम् । तथा पीत्तरस्यास्तीत्यर्थाद्गम्यते ! इति रुदन ह व्युवाचेति । हशब्द ऐतिह्य स्वद्योतनार्थः । प्रहादशन्दे हकारात्परो रेफरछान्दसः ॥ २४ ।। गादों यानमारोहणे विषमारोहणाव- रोहणानि च वर्जयेत् ॥ २५ ॥ गर्दभयुक्तं यानं गार्दमें शकटादि । आरोहणे वर्जयेत् नाऽऽरोहेत् । तथा विषमेषु निम्नानतेश्वारोहणमवरोहणं च वर्जयेत् । उन्नतेष्वारोहणं नि' म्नेचवरोहणम् ।। २५ ॥ बाहुभ्यां च नदीतरणम् ॥ २६ ॥ तरण तरः । बाहुभ्यां च नद्यास्तरण वर्जयेत् । 'बाहुभ्यां मिति व. चनात् प्लवादिना न दोषः ॥ २६ ॥ नावं च सांशयिकीम् ॥ २७ ॥ भिद्यते न वेति संशयमापन्ना मांशायिकी नौः। जीणों नावं वर्जयेत् । 'नावा' मिति षष्टयन्तपाठे नावां मध्ये सांशयिकी नाव वर्जयेत् ॥ २७॥ तृणच्छेदनलोष्टविमर्दनष्ठेवनानि चाऽकारणात् ॥ २८ ॥ तृणच्छेदनादि नाऽकारणावर्जयेत् न कुर्यात् । तृणच्छेदनस्थाऽग्नि ज्वलनादि कारणम् । ष्टेवनस्य कारण प्रतिश्यायादि । इतर मृग्यम् ॥ यचाऽन्यत्परिचक्षते यच्चाऽन्यत्परिचक्षते ॥ २९ ॥ यञ्चाऽन्यदेवं युक्तमाचार्याः परिचक्षते वर्जयन्ति तदप्यक्षकांडादि वर्ज- येत् । द्विरुक्ति प्रश्नपरिसमाप्तिकृता ॥ २९ ।। ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ प्रथमप्रश्ने द्वात्रिंशी कण्डिका ॥३२॥ इत्यापस्तम्बधर्मसूत्रवृत्तावुज्वलायामेकादशः पटलः ॥ ॥ सुमास: प्रथमः पश्न: ।