पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१८६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


स्नातकवूनानि । उज्वलोपेते प्रथम प्रश्नः । सभास्समाजाश्च व्याख्याताः । ताश सेवेत ॥१९॥ समाज चद्गच्छेत्प्रदाक्षिणीकृल्या पेयात् ॥ २०॥ यद्यर्थात् समाज गच्छेत् तं प्रदक्षिणीकृत्या पेयादपरच्छेत् ॥ २० ॥ नगरप्रवेशनानि च वर्जयेत् ॥ २१ ॥ बहुवचननिर्देशात बहुकृत्यो नगरं न प्रवेष्टव्यम् । यदाकदाचिधा. दृच्छिके प्रवेशे न प्रायाश्चत्तम् ॥ २१ ॥ प्रश्नं च न वियात् ।। २२ ।। विविच्य वचन विवचनं निर्णयः । पृष्टमर्थ न विविध्य यादिद मित्थमिति । दुर्निरूपाविषयमिदम् ॥ २२ ॥ अथाऽप्युदाहरन्ति ॥ २३ ॥ अपि चाऽस्मिन्नर्थे श्लोकमुदाहरन्ति ॥ २३ ॥ मूलं तूलं वृहति दुर्विवक्तुः प्रजां पशुनायतनं हिनस्ति । धर्मप्रहाद न कुमालनाय रुदन ह मृत्युव्युवाच प्रश्नम् । इति ॥ २४॥ दुर्निरूपमर्थ सहसा निर्णाय यो दुर्विवक्ति अन्यथा वर्णयति स दु- विवक्ता ! तस्य दुर्विवक्तुस्तदेव दुर्वचनमेव मूलं तूल च वृहति । मूल स्पवृध- नम् । तूलमागामिनी सम्पत् । तदुभयमपि बृहति उत्पादयति । दन्तोष्टयो वकार किमेतावदेव ? न, प्रजा पुत्रादिकाम् । पशून गवादिकान् । आयतनं गृहं च हिनस्ति । अतो दुर्वचनसम्भवात् प्रश्नमात्रमेव न वियादिति। अत्रेतिहासः कस्यचिदृषेधर्मप्रहादः कुमालनश्चेति द्वौ शिष्याचास्ताम् । तौ कदाचिदरण्यान्महान्तौ समिद्भारावाहृत्य श्रमा(१)दष्टिपूत एवाचा- र्यगृहे प्राक्षिपताम् । तयोरेकेनाऽऽक्रान्त आचार्यस्य शिशुः पुत्रो मृतः । ततः शिघ्यावाहूयाऽऽचार्यः पप्रच्छ-केनायं मारित इति। तावुभावपि न मयेत्यूचतुः । तथा पतितस्य परित्यागमदुष्टस्य परिग्रहं कर्तुमश. क्नुवन्नृषिर्मृत्युमाहूय पप्रच्छ-केनाय व्यापादित इति । ततो धर्मसङ्क टे पतितो मुन्सूरुदनेव प्रश्न व्युवाच विविच्य कथितवान् । कथम् ? हे धर्मप्रहाद न कुमालनाय । षष्टयर्थे चतुर्थी । कुमानलस्य नेदं पतनीयमिति । १. दृष्टिपथ एव इति ख. पु.