पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्नातकधर्माः ] उज्वलोपेते प्रथम प्रश्नः । आवसथो गृहम् । तस्य दूरतो मूत्रपुरोषे कुर्यात् , दक्षिणा दिशम् । द्वि. तीयानिर्देशादभिनिष्क्रम्यति गम्यते । दक्षिणापरा नैती ॥ २ ॥ अस्तमिते क्ष बहिामादारादावसधादा मूत्रपुरीषयोः कर्म वर्जयेत् ॥ ३ ॥ अस्तमित आदित्ये बहिामान्सूत्रपुरीषे न कुर्यात् । तथा अन्तीमेऽपि गृहस्थ दूरतो न कुर्यात् । दृष्टार्थोऽय प्रतिषेधश्चोरध्यानादिशङ्कया । निर्भये देशे नाऽस्ति दोषः ॥३॥ देवताभिधानं चाऽप्रयतः॥४॥ देवतानामन्यादीनामभिधानं चाप्रयतस्मन् वर्जयेत् । (१)अपिधानमि- त्यपि पाठ एष एवार्थः॥४॥ परुष चोभयोर्देवतानां राज्ञश्च ॥५॥ देवतानां राज्ञश्वेत्युभयोः । राश्यपेक्षया द्विवचनम् । पक्ष निन्दा वर्जयेत् ॥ ५॥ ब्रामणस्य गोरिति पदोपस्पर्शनं वर्जयेत् ॥ ६॥ ब्राह्मण गा च पादेन नोपस्पृशेत् । इतिशब्दः प्रकारे । तेन विद्यावयो. वृद्धानामब्राह्मणानामपि वर्जनम् ॥ ॥ ६ ॥ हस्तेन चाऽकारणात् ॥ ७॥ कारणमभ्यङ्गकण्डूयनादि । तेन विना हस्तेनाऽप्युपस्पर्शन वर्जयेत् पूर्वोक्तानाम् ॥७॥ गोदक्षिणानां कुमार्याश्च परीवादान्वर्जयेत् ॥ ८ ॥ गोरदक्षिणाया अपि दक्षिणानामगवामपि हिरण्यादीनां कुमार्या. कन्यायाश्च दोषान् सतोऽपि न कोयत् । अध्यात्मप्रकरणे योगाङ्गतया परीवाद. प्रतिषिद्धः । अनन्तरं च वक्ष्यति(२) 'क्रोधादींश्च भूतदाहीयान वर्जयदिति । इदं तु वचनं गवादिषु प्रायश्चित्तातिरेकार्थम् ॥ ८ ॥ स्पृहती च गां नाचक्षीत ॥ ९ ॥ स्पृहती सस्यधान्यादिकं भक्षयन्ती गां स्वामिने न ब्रूयात् ॥ ९ ॥ संसृष्टां च वत्सेनाऽनिमित्ते ॥१०॥ १ अपिधानमित्यपाठः । एष एवार्थ इति ख. ग. पु. २. आप.घ.३१. २३, आप० ध०२२