पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाततधर्माः] उज्ज्वलोपेते प्रथमः प्रश्नः ! अस्य प्रतिप्रसव थो हिंसार्थमभिक्रान्त हन्ति मन्युरेव मन्युं स्पृशति न तस्मिन् दोष इति पुराणे ॥ ७ ॥ यस्तु हिंसाथ मारणार्थममिक्रान्तमाभिपतित हन्ति न तस्मिन् दोषो विधत इति पुराणे श्रुतम् । दोषाभावे हेतु-यस्मान्मन्युरेव मन्यु स्पृशति न पुनः पुरुषः पुरुषम् । अत्र वसिष्ठबौधायनौ- (१)स्वाध्यायिनं कुले जातं यो हन्यादाततायिनम् । न तेन भ्रणहा स स्यान्मन्युस्तं मन्युमृच्छति ।। इति । मनुस्तु- (२)शस्त्रं द्विजातिभिग्राह्य धर्मो यत्रोपरुध्यते । द्विजातीनां च वर्णानां विप्लवे कालकारिते। आत्मनश्च परित्राणे दक्षिणानां च सारे ।। स्त्रीविप्राभ्यवपत्तौ च नन् धर्मेण न दुष्यति ॥ इति ।। गौतमः-(३) प्राणसंशये ब्राह्मणोऽपि शस्नमाददातेति ॥ वसिष्ठ:---- (४)अनिदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारहरश्चैव षडेते शाततायिनः ॥ आततायिनमायान्तमपि वेदान्तपारगम् । जिघांसन्तं जिघांसीयान्न तेन भ्रूणहा भवेत् ॥” इति ॥ ७ ॥ पतितैरकृतप्रायश्चित्तैरुत्पादेितानां पुत्राणामपि पातित्यमस्तीति प्रतिपादयितुं पूर्वपक्षमाह- अथाऽभिशस्ताः समवसाय चरेयुर्धाम्पमिति सांशिये. तरेतरयाजका इतरेतराध्यापका मिथो विवाहमानाः ॥८॥ अथशब्दोऽर्थान्तरप्रस्तावं सूचयति । अभिशस्ता. पतिताः । समवसाय चरेयुः । अवसानं गृहम् । समित्येकीभावे । ग्रामाद्वहिरेकस्मिन् प्रदेश गृहाणि कृत्वा चरेयुः ! धार्म्य धथै वक्ष्यमाणं वृत्तमिति । सांशित्य सं शिता तीक्ष्णां बुद्धिं कृत्वा । निश्चित्येत्यर्थः । इतरेतरं याजयन्तः । इत रेतरमध्यापयन्तः परस्परं विवाहसम्बन्धं च कुर्वन्तश्चरेयुः वनिति॥ १. व. ध. ३. १८. बौ १. १० १२ ३. गो. ध ७ २५ आप० ध०२१ ३ म स्मृ ८ ३४८, ३४९, ४. च.ध. ३.१६, १७