पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्र [(प.१०)क.२९ दातीति चरेत ! चरित्वा प्रामे प्राणवृत्तिं प्राणायात्रामा प्रतिलभ्य शून्यागारं वृक्षमूल या निवासार्थमभ्युपायत्-'न हि म आफैः सह सम्प्रयोगो विद्यत' इत्येवं मन्यमानः । कियन्तं कालमेवं चरितव्यमित्यत आह-एतेनैवेत्यादि । गतमा । 'श्रोत्रियं वा कर्मसमाप्त(२४.२४.) मित्यत्र यः श्रोत्रियः (१)म. न्यधारी अर्थशश्च न भवति अनुष्ठापयिता च न भवति तस्य प्रहणम्॥२॥ यः प्रमत्तो हन्ति प्राप्तं दोषफलम् ॥ २ ॥ क्षत्रियं हत्येत्येवमादिकेऽनुक्रान्तेऽपि विषये यः प्रमत्ता हन्ति प्रमादे- नाचुद्धिपूर्व हन्ति तस्याऽपि दोषफल प्राप्तमेव । न तु प्रमादकृतमिति दोषामावः ॥२॥ सह सङ्कल्पेन भूयः ॥ ३ ॥ सङ्कल्पेन सह बधे कृते भूयः प्रभूततरं भवति । तेन प्रमादकते लधुमा- यश्चित्तम , बुद्धिपूर्वे तु गुर्विति । यत्पुनः पूर्वमुक्तं 'दोषवश्च कर्माभि- सन्धिपूर्व कृत्वाऽनभिसीन्धपूर्व वे(२६.७) ति तत्र तेषु प्रायश्चित्तेषु विशेषाभावादिदमुक्तम् ॥ ३ ॥ एवमन्येष्वपि दोषवसु कर्मसु ॥ ४ ॥ अन्येष्वपि हननव्यतिरिक्तेषु दोषवत्सु कर्ममु एवमेव द्रष्टव्यम्-अबुद्धि- पूर्व कृतेऽल्पो दोष , बुद्धिपूर्व महानिति ॥ ४॥ तथा पुण्यक्रियासु ॥५॥ पुण्यक्रियास्वप्येष एव न्यायः-अबुद्धिपूर्वेऽल्पं फलम्, बुद्धिपूर्व महदिति। तद्यथा--ब्राह्मणस्वान्यपहत्य चोरेषु धावत्सु यदृच्छया कश्चिच्चर आगतस्तान् हन्यात्, स्वयमेव वा शूरं दृष्ट्वा चोरा अपहृतानि द्रव्याण्युत्सृज्य पलायेरन् तदा शुरस्याल्पं पुण्यफलम् । यदा तु बुद्धिपूर्व स्वयमेव चोरेभ्यः प्रत्याहृत्य स्वानि स्वामिभ्यो ददाति तदा महदिति । एवं स्वभाबुछा परदारगमनेऽल्पम्, अन्यत्र महदिति ॥६॥ परीक्षार्थोऽपि ब्राह्मण आयुधं नाऽऽद्दीत ॥ ६॥ गुणदोषशाने परीक्षा । तया अर्थः प्रयोजनं यस्य सः । एवभूतोऽपि ब्राह्मण आयुध न गृह्णीयात् किं पुनहिसार्थ इत्यपिशब्दार्थः ॥ ७ ॥ १. श्रुतिधारी इति. क. पु.