पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [(प.१०)क.२८. सर्वत्राऽऽनुमतिपूर्वमिति हारीतः ॥ ५ ॥ सर्वेषु द्रव्येषु सर्वास्ववस्थासु स्वाभ्यनुमतिपूर्वमेव ग्रहणमिति हारीत आचार्यों मन्यते ॥५॥ न पतितमाचार्य ज्ञाति या दर्शनार्थी गच्छेत् ।।६।। 'न पतितैः सव्यवहारो विद्यत (२१.५.) इत्युक्तेऽपि पुनरुज्यते-आ चार्यादिषु विशेषं वक्ष्यामीति ॥ ६ ॥ न चाऽस्माङ्गोगानुपयुञ्जीत ॥ ७ ॥ अस्मात्पतिवादाचार्यात् ज्ञातेर्वा पित्रादेः भोगान् भोगसाधनानि थप्राप्तान्यपि नोपयुजीत न गृद्धीयात् ॥ ७ ॥ यहच्छासन्निपात उपसंगृह तूष्णी व्यतिब्रजेत् ॥ ८॥ यदि पतितैराचार्यादिभिर्यदृच्छया सन्निपात, सङ्गतिः स्यात् तदाऽवि. धिनोपसगृह्य तुष्णी तैस्सह किञ्चिदप्यसम्भाष्य व्यतिव्रजेत् गच्छेत् । न क्ष. णमपि सह तिष्ठेत् ॥ ८॥ माता पुत्रत्वस्य भूषांसि कर्माण्धारभते तस्यां शुश्रूषा नित्या पतितायामपि ॥ ९ ॥ पुत्रत्वस्य, स्वार्थिकस्त्वः । यथा 'देहत्वमेवान्यदिति । पुत्रस्य कृते भाता भूयानि दृष्टार्थानि गर्भधारणाशुचिनिहरणस्तन्यदानप्रदक्षिणन- मस्कारोपवासादीनि कर्माणि करोति तस्मात्तस्यां पतितायामपि शुश्रूषा अभ्यङ्गस्नापनादिका । नित्या नित्यमेव कर्तव्या ॥९॥ धर्मसन्निवाप: स्यात् ॥ १०॥ एकस्मिन् धर्म लहाऽन्धयो धर्मसन्निवापः । स पतितया मात्रा सह न कर्तव्यः । नामसुब्रह्मण्यायां भातुन मग्रहणम् । वरुणप्रघासेषु (१)या- वन्तो यजमानस्याऽमात्याः सस्त्रीकास्तावन्त्येकातिरिक्तानी त्येवमा. दिकमुदाहरणम् । किं पुनरेवमादिषु मातुरन्वयः शुश्रूषा ? ओमित्याह । अन्विता हि सा सम्मता मन्यते । निरस्ता तु विमता। वैश्वदेवायें च पाके सा न भोजयितव्या । मृतायास्तु तस्याः संस्कारादिकाः क्रिया: कर्तव्याः नेति विप्रतिपाः ॥१०॥ १. आप. नौ ८, ५, ४१. करम्भपात्रनिर्माणे संख्याविधिस्थम् ।