पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमः पटलः॥ यथा कथा च परपरिग्रहमभिमन्यते स्तेनो ह भवती. ति कौत्सहरीतौ तथा काण्वपुष्करसादी ॥ १ ॥ (१)यथा कथा च आपद्यनापदि वा भूयांसमल्पं वा, परपरिग्रह परस्व. माभिमन्यते ममेदमस्त्विति बुद्धौ कुरुते(२) सर्वथा स्तेन एव भवतीति कौत्सादयो मन्यन्ते ॥१॥ संत्यपवादाः एरपरिग्रहेष्विति वायणिः ॥ २ ॥ वार्ष्यायणिस्तु मन्यते केषुचित्परपरिग्रहेषु स्तेयस्याऽपवादास्लन्तीति। तानवोदाहरति-- शम्योषा युग्यघासो न स्वामिना प्रतिषेधयन्ति ॥ ३ ॥ शमी बीजकोशी तस्वामुष्यन्ते दह्यन्ते कालवशेन पध्यन्ते इति शम्योयाः कोशीधान्यानि मुद्गमाषचणकादीनि । युग वहतीति युग्यः श. कटवाही बलीवर्दः, तस्य घासो भक्षस्तृणादिः युग्यधासः । एने आदीय माना स्वामिनो न प्रतिषेधयन्ति स्वामिभिः प्रतिषेधं न कारयन्ति । एते. वादीयमानेषु स्वामिनो न प्रतिषेधुमहन्तीत्यर्थः । स्वयंग्रहणेऽपि न स्तेयदोष इति यावत् । अत्र स्मृत्यन्तरे विशेष:- 'यणकव्रीहिंगोधूमयवानां मुद्माषयोः । अनिषिद्धग्रहीतव्यो मुष्टिरेकाऽध्वनि स्थितैः ।' मनुस्तु- (३) द्विजोऽवगः क्षीणवृत्तिविष द्वे च मूलके । आददानः परक्षेत्रान्न दण्डं दातुमर्हति ॥३॥ अतिव्यवहारो व्वृद्धो भवति ॥ ४ ॥ शम्योषादिष्वपि अतिव्यवहारो व्युद्धो दुष्टो भवति, अतिमात्रापहारे स्ते- यदोषों भवतीत्यर्थः ॥ ४॥ १. 'कथा' इति छान्दस रूप कथमित्यर्थ. ! दृष्टं च "तमब्रुवन् कथा हास्था." (तै.सं. २.६.३.) "कथा मा निरभागिति" (ते.स.३.१.९) इत्यादौ । २. बुद्धौ कृत्वाऽऽदत इत्यर्थ , इत्याधिक रु. छ. पु. ३.म. स्मृ. ८.३४१.