पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [(प.९)क.२७, यदेकरात्रेण करोति पापं कृष्णं वर्ण ब्राह्मणसेवमान: चतुर्थकाळ (१)उदकाभ्यवाणी त्रिभिस्तदप. हन्ति पापम् ॥ ११ ॥ कृष्णो वर्ण शुद्रः। तमानाकरो भूत्वा वृत्यर्थ सेवमानः । शिष्टं स्पष्ट गतं च । अपर आह-शुदा मैथुने सेवमान इति । अस्मिन्पक्ष ऋताबुपगमने अपत्योत्पत्ताविदं द्रष्टव्यम् । मनु:--- (२)वृषलोफेनपीतस्थ निश्वासोपहतस्य च । तस्यां चैव प्रसूतस्य निश्कृतिने विधीयते ॥ इति ॥ ११ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ प्रथमप्रश्ले सप्तविंशी कण्डिका ॥ २७ ॥ इति चाऽऽपस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु- ज्वलायां प्रथमप्रश्ने नवमः पटलः ॥ ९॥ १. उदकाभ्युपायी इति. छ. पु. ३. म. स्मृ. ३. १९.