पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४ आपस्तम्बवभन्ने [ (१९.)क. २४, धर्मार्थसन्निपातेऽर्थग्राहिण एतदेव ।। २३ ॥ धर्मस्याऽग्निहोत्रादेः, अर्थस्य च कुख्यकरणादेः (१) युगपधन सन्निपातः सोमयानुग्रहासम्भवे धर्मलोपेन योऽर्थ गृहाति तस्याऽप्येतदेव प्रायश्चि- तम् । अथवा धर्म हित्वाऽर्थहेतोः कौटसाक्ष्यादि करोति तविषयमेतत् । अ गौतम:- (२) कौटसाक्ष्यं राजगामि पैशुनं गुरोरनृताभिशंसनं महापातक समानी ति । अनुरपि-- (३) अनुतं च लमुत्कर्षे राजगामि च पैशुनम् । गुरोचाइलीकनिर्बन्धः समानि ब्रह्महत्यया ॥ इति ॥ २३ ॥ गुरूं हत्वा श्रोत्रियं या कर्मसमासमेतेनैव विधिनो. समादुच्छ्वासाच्चरेत् ॥ २४ ॥ गुरुः पित्राचार्यादिः । श्रोत्रियोऽधीतवेदः । स यदि कर्मलमाप्तो भ वति सोमान्तानि कर्माणि समाप्तानि यस्य स कर्मसमाप्तः । तो इत्वा एतेनै- वाऽनन्तरोकेन्द विधिना ओत्तमादुच्छ्वासात् । उत्तम उच्छाला प्राणवियोगः । आतस्माच्चरेत् ॥ २४॥ नास्याऽस्मिल्होके प्रत्यापत्तिर्विद्यते॥ २५ ॥ अश्वमेधावqथादिषु सम्भवत्स्वाप अस्याऽस्मिल्लोके अस्मिन् जीविते प्रत्यापत्तिः शुद्धिनास्तीत्यर्थः ॥ २५ ॥ कल्मषं तु निहण्यते ॥ २६ ॥ मृतस्य कल्मषं निहण्यते । (४)तेन पुत्रादिभिः संस्कारादिः कर्तव्य इति भावः । अन्ये तु पूर्व सूत्रं तन्नित्यर्थ मन्यन्ते । प्रत्याप्रत्तिः पुत्रा- दिभिः पित्रादिसावेन सम्बन्ध इति ॥ २६ ॥ इति हरदत्तविरचितायामापस्तम्बसूत्रवृसौ चतुर्विशी कडिएका ॥२४॥ १. कुख्यकरणादेः इति नास्ति क, च.पु. २. गौ. प. २०, ९. ४. तेन पुत्रादिभित्रकाराद्यौर्वदेहिकाः कार्या इति भावः, इति ख, पु.