पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्महत्याप्रायश्चित्तम ] उज्वलोपत प्रथमः प्रश्नः । सावृत्तिः॥१६॥ सप्तस्वगारेषु या च यावती लभ्यते सैव मृतिः अपर्याप्ताऽपि ॥१६॥ अलब्ध्वोपवासः॥ १७ ॥ यदि सप्तागारेषु न किञ्चिल्लभ्यते तदोपवास एक तस्मिनहानि ॥ गाश्च रक्षेत् ॥ १८॥ एवं प्रायश्चित्तं कुर्वनहरहर्णाश्च रक्षेत् ॥ १८ ॥ तासां निष्क्रमणप्रवेशने वित्तीयो ग्राभेऽर्थः ॥ १९ ॥ तासां गवां निष्क्रमणसमये प्रवेशनसमये च द्वितायो प्रामेऽर्थः प्रयो- जनम् । भिक्षार्थ प्रथममुक्तम् । नाऽन्यथा प्रामं प्रविशेदित्युक्तं भवति । द्वादश वर्षाणि(१) चरित्वा सिद्धः सद्भिस्सम्प्रयोगः ॥२०॥ एवं द्वादश वर्षाणि व्रतमेतच्चरित्वा सद्भिः सम्प्रयोग: कर्तव्यः । सद्भिः सह सम्प्रयुज्यते येन विधिना स कर्तव्यः। स शिष्टाचारे शास्त्रान्तरे सिद्धः स उच्यत-कृतप्रायश्चित्तः स्वहस्ते ययसं गृहीत्वा गामाहयेत ! सा यद्यागत्य अधाना भक्षयति तदा सम्यगनेन ब्रतं चरितमिति जानी. अन्यथा नेति ॥२०॥ आजिपथे वा कुटिं कृत्वा ब्राह्मणगव्योऽपजिगीषमाणों बसेस्त्रिः प्रतिराद्धोऽपजिल्स था मुक्तः ॥२१॥ सवामेण जेतव्या दस्थको येन पथा ग्राम प्रविश्य गवाहिकमपह- स्थाऽपसरन्ति स आजिपथः । तस्मिन्वा कुटिं कृत्वा वसेत् । किं चिकी. पन् ? प्राह्मणगन्या (२) 'या छन्दसीति पूर्वसवर्णाभावे वणादशः प्राह्मण. गधारपजिगीषमाणः दस्यूनपजित्य प्रस्थाहर्तुमिच्छन् । एष वसन् दस्युमिहिषमाणं गवादिकमुद्दिश्य तैर्युद्धं कुर्वन् त्रिः प्रतिराद्धः तैरपजितः अपजित्य वा तान् गवादिक प्रत्यात्य ब्राह्मणेभ्यो दत्वा मुक्तो भवति त. स्मादेनसः । द्वादशवार्षिक प्रवृत्तस्येवम् । एवमुशरमपि ॥ २१ ॥ आश्वमेधिकं वाऽवभृथमवेत्य मुच्यते ॥ २२ ॥ अथ वाऽश्वमेधावभृथे स्नात्वा मुच्यते ॥ २२॥ १ तमेतदिति आधिकं पुस्तके २. पा. सू ६.१.१०६.