पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [ (५.१.)क. २४. तस्य सर्वप्रकाराभिशस्तस्य निर्वेषः प्रायश्चित्तं वक्ष्यते ॥१०॥ अरण्ये कुटिं कृत्वा वाग्यतः शवशिरध्वजोऽधशा. गोपचमधोनाभ्युपरिजान्वाच्छाध ॥ ११ ॥ कृत्येति वचनान्न परकृता कुटी ग्राह्या । वाक् अता नियता येन स वाग्यतः वाचयमः। आहिताग्न्यादिषु दर्शनात निष्ठान्तस्य परनिपातः। शशिर. ध्वजो यस्य स शवशिरोध्वजः । सकारलोपश्चान्दसः। स्वव्या- पादितस्य शिरो ध्वजदण्डस्याने प्रोतं कृत्वेत्यर्थः यस्य कक्ष्य विच्छवस्ये त्यन्ये । शणस्य विकारः शाणी पटी तस्या अर्धमशाणी तस्याः पक्ष मर्धशाणीपक्ष आयामविस्तारयोरुभयोरप्यर्धम् । अघो नाभि उपरिजानु च यथा भवति तथा तावन्तं प्रदेशामाच्छाद्य । सापेक्षत्वात् 'प्रामे प्रतिष्ठेते' (२४.१४.)ति वक्ष्यमाणेन सम्बन्धः । मध्ये क्रियान्तरविधिः ॥११॥ तस्य पन्था अन्तरा वर्मनी ॥१२॥ तस्य प्रामं प्रविशतः बर्मनी अन्तरा शकटादेवत्मनोमध्ये पन्था धेदि. तव्यः । अपर आह-यत्र रथ्यादावुभयोः पादयोर्वमनी भवतः तत्र तयोर्मध्येन सूकरादिपथेम सञ्चरेदिति ॥ १२ ॥ दृष्ट्वा चाऽन्धमुत्क्रामेत् ॥ १३ ॥ अन्यमार्य दृष्ट्वा पथ उत्मामेत् । तत्र कौटिल्यः(१) पधारत्नयो रथपथ- श्चत्वारो हस्तिपथः द्वौ क्षुद्रपशुमनुष्याणामिति । तेन मनुष्येषु द्वौ हस्तावुकामेदिति ॥ १३ ॥ खण्डेन लोहितकेन शरावण ग्राम प्रतिष्ठेत ॥१४॥ सर्परमात्रं खण्डम् । (२)लोहितकमानाप्रीतम् । एवम्भूतं शरावं भिक्षा- पात्रं गृहीत्वा मामे प्रतिष्ठेत । प्रामं गच्छेत् ॥ १४ ॥ कोऽभिशस्ताय भिचामिति(३) ससागारं चरेत् ॥१५॥ (४)अभिशस्ती ब्राहा । तस्मै मह्यं को धार्मिको भिक्षां ददातीति उर्द्धवाणः सप्ताऽगाराणि चरेत् । सप्तग्रहणमाधिकनिवृत्त्यर्थम् । द्विवेवा. गारेषु यदि पर्याप्तं लभ्यते तदा तावत्येव ॥ १५ ॥ १. कौटि. अर्थ. २ ४, २२. ३. सप्तागाराणि इति क.पु. ..लोहितं मनाक्ताम्रम् इति. क. पु. ४. अभिशस्ते को धार्मिकः, इत्येव पाठ ग. पु.