पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षत्रिय हत्या गवां सहस्रं वैरयातनार्थं दद्यात् ॥ १ ॥ क्षत्रियं हत्वा गर्वा सहसू ब्राह्मणेभ्यो दद्यात्। किमर्थम् वैरयातनार्थं वैरं पाप तस्म यातनं लिईरणं तदर्थम् "वभश्चानाधिका सर्वत्र प्रायश्चित्ता. थ"(२४.४)इति वक्ष्यति । तेन प्रायश्चितरूपमिदं दानम् । प्रायश्चित्तं च पापक्षयार्थम् । तस्किमर्थ वैरयातनार्थमित्युच्यते ? केचिन्मन्यन्ते- नाऽभुक्तं क्षीयते कर्म पुण्यमपुण्यं च । प्रायश्चित्त तु नैमितिकं कर्मान्तरं (१)यथा गृहहाहादौ क्षामवत्यादय इति । तानिराकमिदमुक्तम् । औतेऽप्युक्तं--(२)दोषानिघातार्यानि भवन्तीति । अपर आह-यो येन हन्यते स हतो नियमाणस्तस्मिन्वैरं करोति-अपि नामाऽहमेनं जन्मान्तरेऽपि वध्यासमिति । तस्य वैरस्य यातनार्थमिदमिति प्रायश्चि. तार्थत्वमपि वक्ष्यमाणेन सिद्धमिति ॥ १॥ शतं चैश्ये ॥३॥ वैश्ये इते गवां शतं दद्यात् ॥ २॥ दृश शूद्रे ॥३॥ शुद्रे हटे दश दद्यात् । गा इति प्रकरणादस्यते ॥३॥ ऋषभश्चाऽत्राधिका सर्वत्र प्रायश्चित्तार्थः ॥ ४॥ सर्वेष्वेतेषु निमित्तेषु ऋषभोऽप्यधिको देयः। न केवलं गा एव । इदं प्रायश्चित्तत्रयं मानवेन समानविषयम् । यथाऽऽह--- (३)अकामतस्तु राजन्यं विनिपात्य द्विजोसमः। ऋषकसहना गा दयाच्छुद्ध्यर्थमात्मनः ॥ ध्यब्दं चरेद्वा नियनो जटी ब्रह्महणो व्रतम् । वसन दूरतरे प्रामादृक्षमूलनिकेतनः ॥ १. 'यस्य गृहान् दहत्यग्नये क्षामवते पुरोडाशमष्टाकपालं निपेत् भागधेयेनैवैन" शमयति नाऽस्याऽपरं गृहान् दहति (ते.स. २.२.२.) इति विहिता आहितामेर्यजमानस्य गृहे दग्धे ताशगृहदाइनिमित्तका क्षामवदग्निदेवताकेष्टिः क्षामवतीष्टिः । २. आर० श्रौ० १.१.४ ३. म, स्मृ. ११ १२५-१३.