पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आत्मज्ञानोपायाः ] उज्ज्वलोपत्ते प्रथमः प्रश्नः । न उष्टार्थवादित्वम् । सम्विभागः आत्मान(१)मुपरुध्याऽप्यन्नादिदानम् । त्यागोऽपरिप्रहः । आर्जव मनोकायानामेकरूपत्वम् ६ मार्दव सूपगम्यता। शमः मन्युपरित्यागः । दम.(२)इन्द्रियजयः । एताभ्यामेव गतत्वात् पूर्व अस्वस्मिन क्रमे अकामः, अमन्युः, आत्मवत्वमिति नोपदिष्टम् । सर्वभूतैर. विरोधः ।सर्वप्रणं क्षुदैरविरोधार्थम् । योग. ऐकाप्यम् । आर्याणां भावः आर्य शिष्टाचारानुपालनम् । आनृशस आमृशस्य व्यवहारवचनादौ प्रसक्त. नैछुर्यस्य वर्जनम् । तुष्टिरनिर्वेदः । समयो ब्यवस्था । सा च प्रकरणाद्ध- मज्ञानाम् । पद विषयः । एते अक्रोधादयः सर्वेषामाश्रमाणां सेव्याः, केवलं योगिनामेवोति धर्मशानां समय इत्यर्थः । एतेहि भाव्यमानाः क्रोधादीन समूलघातं जन्ति अतश्च तान्यनुतिष्ठन् विधिना सविगामी भवति । तान्यक्रोधादीनि तुष्टयन्तानि । विधिना यथाशास्त्रम अनुतिष्ठन् सार्वगामी सर्वस्मै हितः सार्थः आत्मा तं गच्छति प्राप्नोति । "विधिने ति वचनाव(३) प्राणिनां तु वधो यत्र तत्र स्वास्यन्तं वदेत् ।' इत्यादिके विषये अनृतवचनादावपि न दोष इति ॥ ६ ॥ इति श्रीहरदत्तविरचितायामापस्तम्बधर्मसूत्रवृत्ताबुज्वलायां त्रयोविंशी कण्डिका ॥ २३ ॥ इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिनविरचितायामु- ज्ज्वलायां प्रथमप्रश्नेऽष्टमः पटलः ॥८॥ १. अवरुध्य इति क. पु. २. इन्द्रियनिग्रहः इति ग, पु ३. द्विवेष्वप्यादर्शपुस्तकेषु 'प्राणिनां तु वयो यत्र' इत्येव पाठस्समुपलभ्यते । परन्तु श्लोकार्थमिदं याज्ञवल्कीयम् । तत्र "वर्णिनां हि वो यत्र" इत्येव मुद्रितपुस्तकेषु पाठस्म- मस्ति । ( या. स्मृ. २.८३.) किश्च मनौ एतत्समानार्थकश्लोक एवमुपलभ्यते-- शविटक्षत्रविप्राणां यत्रों को भवेद्वधः । तत्र वकल्यमनृतं तद्धि सत्याद्विशिष्यते ॥ इति । (म. स्मृ. ८. १०४ ) अनयोरेकार्थत्वमभ्युपगम्यैव विज्ञानेश्वरेणाऽपि “यत्र वर्णिना शूद्राविक्षन्नवि- प्राणां सत्यवचनेन वधस्सम्भाव्यते” इति याज्ञवल्क्रीय वचनं व्याख्यातम् । अन्यैरपि विश्वरूपापरार्कादिमि वर्णिनाम्' इत्येवं पाठ. स्वीकृतः । अतोऽत्रापि 'वर्णिना' इत्येव पाठस्साधीयानिति युक्तमुत्पश्याम. ॥