पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मस्त्रे [(प.८.) क.२३. मानृशंसं तुष्टिरिति सर्वाश्रमाणां समयपदानि तान्य. नुतिष्ठन् विधिना (१)लावंगामी भवति ॥ १४ ॥ ६ ॥ विवरणम् । अक्रोधोऽहर्षः इत्येवमाया अयोगविपरीताः। अतस्ते समाधिलक्षण- स्वाद योगाः । सविभागः आत्मनो यात्रासाधनस्याऽथिभ्यः संविभजनम् । त्यागः इष्टादृष्टेष्टभोगानां शक्तितः परित्यजम्, तत्साधनानां च । आर्जवम् ऋजुता, अदुष्टाकलनपूर्विका वाङ्मनःकायानां प्रवृतिः। मार्दव मृदुत्वम् । शमोऽन्तःकरणोपशमः। दो बाह्यकरणापेशमः । इदमन्यद् योगलक्षणं संक्षेपत उच्यते-सर्वभूताविरोधो योगः, विरोधे हि भूतानां पीडा, तदभावेऽपीडा । स एव सर्वभूतापीडालक्षणो योगः। आर्थम् आर्याणां भाव अक्षुद्रता । आवृशंसम् आनृशंस्थम् , अक्रौर्यम् । तुष्टिः लब्धव्यस्थाऽलासेऽपि चेतसः प्रसन्नतयाऽवस्थानं लाभ इव ! सर्व भूताविरोलक्षणांहिसा परिवाजकस्यैव सम्भवतीत्यायर्यादीनां अया. णामन्येषां चाऽविरुद्धानां सर्वाश्रमान प्रति प्राप्तिरितीतिशब्दसाम दि , इतिशब्दस्य च प्रकारवचनवादार्यादीनीत्यप्रकाराणि सधि- मान् प्रति गमयति सर्वाश्रमाणां समयपदानाति समयस्थानानीत्ये तत् । अवश्यानुष्ठेयानीत्यर्थः । तान्येतानि यथोक्तान्यनुतिष्ठन् विधिना सर्वनामी सर्वगमनशीला, शानाभिव्यक्तिक्रमेण । भवति मुच्यते इत्यर्थः ।। इति श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीशङ्करभगवत्पादाचार्यस्य कृतिषु आपस्तम्बीयधर्मशासाध्यात्मपटलविवरणम् ॥ * ! 1 उज्वला के पुनस्ते योगाः १ तानाह--- एते चाऽक्रोधादयोऽपि भावरूपाः न क्रोधाधभावमात्रम् , क्रोधादिनि- तिहेतुतयोपदेशात् । के पुनस्ते ? अक्रोधः, क्रोधादिषु प्रसक्तध्वपि मा कार्षमिति सङ्कल्पः । अहर्षः, इष्टलाभालामेषु चेतस ऐकम्प्यम् । भरोषः मित्रादिषु प्रतिकूलेध्वपि मनोविकाराभावः । अलोभः सन्तो. षोडलम्बुद्धिः । अमोहोऽवधानम् । अदम्भी धर्मानुष्ठानम् । भद्रोहः परेध- पकारिप्वयनपकारः । अनसूया परगुणेष्वभिमोदनम् । सत्यवचनं अथा.