पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [(प.८)क.२३. गदिति प्राप्तम् । अतस्तन्मा भूदित्याह-अनन्यस्य अपृथग्भूतस्य ज. गतः, ज्ञेयात् शातव्यात् परमार्थस्वरूपाद्वयात् परमेश्वराद् घटादेरिव मृदः । स च परमेष्ठी परमे प्रकृष्टे स्वे माहम्नि हुदाकाशेऽवस्थातुं शीलमस्येति परमेष्ठी । स्वयमेव विभाज' विभक्तो देवपितृमनुष्यादि. ना झातृयज्ञानभेदेन च, यस्मात् स एव ज्ञेय आत्मा स्वतो विभजति जगदलेकधा । तस्मादेवात्मनः काया शारीराण्याकाशादिक्रमेण प्रभवन्ति सर्वे ब्रह्मादिलक्षणाः । अतो मूलं स जगतः । (१)"यतो वा इमानि भूतानि जायन्ते" इति श्रुतेः । अत एव स शाश्वतिकः । यो दि पृथिव्यादिविकारः, सोऽबादिक्रमेण विनश्येत् , पर भूलकारणमापद्यते, सोऽशाश्वतिकोऽ नित्यः । अयं चाऽऽत्मा परं मूलम् । न तस्याऽप्यन्यन्मूलमस्ति; यतो जा तो विनश्येत् , मूलमापद्यते, ततस्तविलक्षणत्वाच्छाश्चतिकः शश्वदे. करूपः । अतो नित्यः एकत्वमहत्वमूलत्वेभ्यश्च ॥ १० ॥ उज्वला। निपुणो मेधावी चित्स्वरूपः । विसोया बिलतन्तोरप्यणीयान् सूक्ष्मः । य सर्वमावृत्य व्याप्य तिष्ठति । यश्च पृथिव्या अपि वर्षीयान् प्रवृद्धतरः सर्वग. तत्वादेव सर्वभारभ्य विष्टभ्य शेषित्वेनाऽधिष्ठाय तिष्ठति । ध्रुवः एकरूपः । अस्य जगतो यदिन्द्रियैनि इन्द्रियजन्यं ज्ञानं तस्मात् । कीदृशात् ? अनन्यस्य ज्ञेयात् , पञ्चम्यर्थे षष्ठी, शेषात् नीलपीताद्याकारादनन्यभूतं नीलपीताद्याकार, तस्माद्विषज्ञानादन्य इत्यर्थः । श्रूयते च (२) तस्मा- द्वा एतस्माद्विज्ञानमयात् । अन्योऽन्तर आत्मानन्दमय' इति । (३) शानस्वरूपमत्यन्तनिर्मलं परमार्थतः । तमेवार्थस्वरूपेण भ्रान्तिदर्शनतस्स्थितम् ॥' इति पुराणम् । स्वभा. षतः स्वच्छस्य चिद्रूपल्यऽऽत्मनो नीलपीताद्याकारकालुप्यं तद्रूपाया बुद्धेरनुरागकृतं भ्रान्तमित्यर्थः। वैषयिकशानादन्य इति विशेषणेन शाना रमक इत्यपि सिद्धम्। (४) 'सत्यं शानमनन्तं ब्रह्मेति च श्रुतिः। एवंभूत- स्यामा परमेष्ठी परमे स्वरूपे तिष्ठतीति । विभाज इत्यस्य परेण सम्ब. न्धः । विभजत्यात्मानं देवमनुष्यादिरूपेण नानाशरीरानुप्रवेशेनेति वि. भाक् । तस्माद्विभाजो निमित्तभूतात् सर्वे काया देवमनुध्यशरीराणि प्रभवन्ति उत्पद्यन्ते । स मूल प्रपञ्चसृष्टोक्तृतया मूलकारणम् । स नित्यः अवि नाशी। शाश्वतिक एकरूपः अविकारः॥२॥ १.ते. उ. ३.१. २. तै. उ. २. ५.