पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आत्मज्ञानफलम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । विवरणम् । कि आत्मन् पश्यन् आत्मनि पश्यन् उपलभमानः । सर्वभूतानि सर्वाणि (भूतानि)। सर्वेषां भूतानामात्मस्वरूपतामेव पश्यनित्यर्थः । सवत्राऽऽस्मानं च परम् । न मुह्येत् मोह न मच्छेत् । न ह्यात्मैकत्वदर्शिनो मोहावतार:: (१) तत्र को मोह' इति च मन्त्रलिङ्गात्। कीडग्विशिष्टमा. स्मदर्शनं मोहनिबर्हणमित्याह-चिन्तयन् उपसंहृतकरणः कविः मेधा- वी सन् ध्यायमानः । न शब्दजनितदर्शनमात्रेण मोहापगमः । सर्वभूते. मनुप्रविष्टमकं संव्यवहारकाले यो हि युक्तः पश्येत् , स वै ब्रह्मा ब्राह्मणः । नाकपृष्ठे सुकरागौ(?) ब्रह्मणि । विराजति विविधं दाप्यते ॥९॥ उज्वला। सर्वाणि भूतानि आत्मन् आत्मनि शेषत्वेन स्थितानि पश्यन् उपनिषदादि. मिर्जानन् । पश्चाचिन्तयन् युक्तिमिर्निरूपयन्, यो न मुह्येत मध्ये मोहं न गच्छेत् । कविर्मेधावी । पश्चाश्च सर्वत्रैव शेषत्वेन स्थितमात्मनं पश्येत् साक्षा स्कुर्यात् । स वै ब्रह्मा ब्राह्मण. नाकपृष्ठे तत्सदृशे स्वे महिम्नि स्थितो विरा- जति स्वयं प्रकाशते ॥१॥ निपुणोऽणीयान् बिसोर्णाया यस्सर्वमावृत्य तिष्ठति । वर्षीयांश्च पृथिव्या ध्रुवः सर्वमारभ्य तिष्ठति । स इन्द्रियैर्जगतोऽस्य ज्ञानादन्योऽ नन्यस्य ज्ञेयात्परमेष्ठी विभाजः। तस्मात्कायाः प्रभवन्ति सर्वे समूलं शाश्वतिकास नित्यः।। विवरणम्। किञ्च निपुण' सर्ववित् अणीयान् अणुतरो विसोया: बिस्सत- सन्तोरपि । कोऽसौ ? य प्रकृत आत्मा सर्व समस्तं जगदावृत्य सं. व्याप्य तिष्ठति । किञ्च वर्षीयान् वृद्धतरः स्थूलतरश्च पृथिव्याः। सर्वा त्मको हि सः। ध्रुव. नित्यः सर्व कृत्स्नमारभ्य संस्तम्भनं कृत्वा । लिष्ठति वर्तते । (२) येन द्यौरुमा पृथवी चढा' इति मन्त्रलिजात् । स सर्वेश्वर सर्वज्ञः एको विज्ञेय इत्यर्थः । स परमात्मा इन्द्रियैर्जन्यते यशानं ज- गतोऽस्य, तस्मात् ज्ञानादन्यो विलक्षणः, लौकिकज्ञानादन्य इति विशे. षणाज्ञानात्मक इत्यतेत् सिद्धम् । 'सत्यं शानमनन्तमिति च श्रुतेः। अस्य जगत इन्द्रियजन्यज्ञानादन्य इत्युक्तम् । अतश्च तयतिरिक्त ज. १.इशा.उ. ७. २.३८.७.३.