पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [(५.८)क.२३ तद्यथा घुक्तम् । सम्वत्सरस्य मध्ये भवति एवमङ्गानामेष मध्ये । (१) मध्यं ह्येषामङ्गानामात्मेति बङ्घचब्राह्मणम् । स एव च वैभा- जनं पुरं विविधैर्मागर्भजनीयं विभजनम् । तदेव वैभाजनं प्रशादिरनुश तिकादिश्च । यथा लमृद्ध पुरं सर्वैरर्थिभिः प्रापयमेवमयमपीति ॥ ७ ॥ तं योऽनुतिष्ठेत्सर्वत्र प्राध्वं चाऽस्य सदाऽऽचरेत् । दुर्दर्श निपुणं युक्तो यः पश्येत्स मोदेत विष्टपे ॥ ८॥ विवरणम् । अतस्तदुपाध्यनुवर्तिस्वभावदर्शन म विद्याख्य हित्वा विद्यया शा. स्त्रजनितदर्शनेन त यथोकलक्षणमात्मानमनुतिष्ठेत् ।। सर्वत्र सर्वस्मिन् काले किञ्च न केवलमनुष्ठानमात्रमस्य । प्राचं बन्धनम् आत्मकत्वरल. प्रक्षता स्थिरां बार्बोषणाव्यावृतरूपां सर्वसन्न्यासलक्षणाम् । तद्धि बन्धन विदुषो ब्रह्मणि । एवं हि बद्धो ब्रह्मणि संसाराभिमुखो नाऽऽक तते । तस्माद् बन्धनं चाऽस्य सदाऽऽचरेत् । तदनुष्ठानबन्ध ने सदाचरतः किं स्यादिति ? उच्यते-दुर्दर्श दुःखेन ह्येषणात्यागादिना स दृश्यत इति दुर्दर्शम् । निपुंग यस्माद्धि दुर्दशै तस्मानिपुणम् । अत्यन्तकौशलेन समाहितचेतसा युक्तो यः पश्येत साक्षादुपलभेत-अहमात्मेति, स मोदेत । एवं दृष्ट्वा हर्षमानन्दलक्षणं प्राप्नुयात् । विष्टपे विगत सन्ताप. लक्षणेऽस्मिन् ब्रह्मणीत्यर्थः ॥ ८ ॥ तमेवंभूतमात्मानं योऽनुतिष्ठेदुपासीत यश्चाऽस्य सर्वत्र सर्वास्ववस्थासु सदा प्राध्वमानुकूल्यमाचरेत् । आनुकूल्य प्रातषिद्धवर्जनं नित्यनौमितिः ककर्मानुष्ठान च। यश्च दुर्दशं निपुण(२) सूक्ष्मतः युक्त. समाहितो भूत्वा पश्येत् साक्षात्कुर्यात् । सः विष्टो विगततापे स्वे महिम्नि स्थितो मोदेत सर्वदुःखवर्जितो भवति । संसारदशायां वा तिरोहितं निरतिशयं स्व- मानन्दमनुभवतीति ॥८॥ ॥ इत्यापस्तम्बसूत्रवृत्तावुज्वलायां द्वाविंशी कण्डिका ॥ २२ ॥ उज्वला। आत्मन् पश्यन् सर्वभूतानि न मुह्येचिन्तयन्कविः । आत्मानं चैव सर्वत्र यः पश्यत्स वै ब्रह्मा नाकपृष्ठे विराजति ॥९॥ १ ॥ १.ऐ. ब्रा. ६. प. 4. ख. २. सूक्ष्ममेत इति क.ख.पु.