पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आत्मज्ञानसम्पादनम् ] उज्ज्वलोपेते प्रथम प्रश्नः। १३९ वृत्तेन शब्दादिषु विषयेश्ववान्तरप्रकारभेदः प्रतिपाद्यते। विषयापहृत चेतसो हि वदन्ति-'इति ह तस्या गीतम् , इति ह तस्याः सुखस्पर्शः, इति ह तस्या अपं निष्टप्तमिव कनकम् , इति ह तस्याः स्वादिष्ठोऽधर- मणिः, इति ह तस्या गन्धो घ्राणतर्पण' इति । एवं दिव्यमानुषभेदोऽपि द्रष्टव्यः। अत्राऽनन्तरमपर इतिशब्दोऽध्याहार्यः । इति ह इति हेति यो ऽय लोके विषय उच्यते, सामान्यापेक्षकवचनम् , एतद्विधूय गुहाशय. मनुतिष्ठेत् । कविर्मेधावी ॥ ५॥ विवरणम् । तत् क्वाऽनुष्ठातव्यमिति । उच्यते-- आत्मन्नेवाऽहमलध्वैतडितं मेवस्व नाऽहितम् । अथाऽन्येषु प्रतीच्छामि साधुष्ठानमनपेक्षया । महान्तं तेजसस्कायं सर्वत्र निहितं प्रभुम् ॥ ६ ॥ आत्मन्नेव आत्मन्यथ । प्रत्यगात्मा हि परमात्मा। सर्व ह्यत्रानुष्ठेयम् । थदि देहादन्यत्राऽनुष्ठीयत, सोऽनात्मा कल्पितः स्यादा तस्माद् देहादि- सङ्घात आत्मन्येव विधूय बाह्यास गुहाशयमात्मतत्वमनुष्टयम् । किम- न्ये ध्वननुष्ठेयमिति भगवतो मतम् ? बाढम , प्रथममेव नान्येष्वनुष्टय. मात्मतत्त्वम् । कथं तर्हि ? सर्वप्रयत्नेनाऽपि स्वदेहादिलाते यथोक्तमा. स्मतत्त्वं न लभेत, अथाऽहमन्यष्वादित्यादिषु प्रतीच्छामि अभिवाञ्छामि । साधुष्ठानं साधो परमात्मनः उपलब्धिस्थानं, यत्र गुहाशयं ब्रह्म- तत्त्वमनुष्ठयम् । अनपेक्षयाऽन्यत् पुत्रवित्तलोकादिसुखं छित्वा निःस्पृ. हतया । न हारत्मानुष्ठानं जाह्मार्थाकाङ्क्षा च सह सम्भवतः । कस्मात् पुनरनेकान्यन्यानि हितप्रकाराण्यनेपक्ष्याऽत्मानुष्ठानमेव यत्नत आ. स्थीयत इत्यत आहाऽऽचार्य:-यथान्यान्यहितानि हितबुध्या परिगृही. तानि, न तथैवमात्मसेवनम् । किं तर्हि ? (प)तद्धितमेव । तस्मात् सेवस्वेति । किंविशिष्टश्चाऽऽत्मा सेवितव्य इत्याह-महान्तम् अमितान्तम अनन्त (र)त्वादबाह्मत्वाच महानात्मा, तं महान्तम् । गुणैर्वोपाधिस. हवारिभिर्महान्तं, बृंहणमिति यत् । तेजसस्कार्य तेजःशरीरमित्यर्थः । चैतन्यात्मज्योतिःस्वरूपम् । तद्धि तेजसा तेजः । (१) येन सूर्यस्तपति तेजसेद्धः (२) 'तस्य भासा सर्वमिदं विभाति' इति श्रुतेः। सर्वत्र सर्व. देहेषु ब्रह्मादिस्तम्बपर्यन्तेषु । निहित स्थितम् , उपलब्धिरूपेणाभिव्यक्त १.तै, बा. १३.९.७. २. मुण्ड. २. २, १०. आप.ध०१७