पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मने [(प.८.)क.२२. अध्यात्मनि भवानध्यात्मिकान् । छान्दसो वृद्धाभावः । आत्मनो लम्स. पितृन् । योगान् चित्तलमाधानहेतून् वक्ष्यमाणानक्रोधादीनुपायान् । अनुतिष्ठेत् सेवेत न्यायसहितान् उपपत्तिसमन्वितान् , उपपद्यते हि ते न्या. यतः क्रोधादीना दोषाणा निर्धाते । अनैश्चारिकान् निश्वारश्चित्तस्य बहिर्वि- क्षेप, तस्मै ये प्रमशान्ति क्रोधाद्यो वक्ष्यमाणाते नैश्वारिकाः तत्प्रति पक्षभूतान् । अक्रोधादिषु सत्सु चित्तमनिश्चरणशीलमात्मालम्बनं नि- श्चलं तिष्ठति तस्माचाननुतिष्ठेत् । आत्मानं लन्धुमक्रोधादिलक्षण चित्तलमाधान कुर्यादिति ॥१॥ विवरणम् । पुत्रवित्तादिलामो हि परो दृष्टो लोके । किमात्मलाभेन ? इत्यत आह- आत्मलाभान्न पर विद्यते ॥२॥ आत्मलाभाद् आत्मनः परस्य स्वरूपप्रतिपनेः न पर लाभान्तरं विद्यते। तथा विचारित वृहदारण्यको(१) तदेतत् प्रेयः पुत्राद्' इ त्यादिना ॥२॥ उज्चला। किपुनरात्मा प्रयत्नेन लब्धव्यः ? ओमित्याह-- आत्मलाभात्परमुत्कृष्टं लाभान्तर नास्ति । तस्मात्तस्य लाभाय यत्न आस्थेय इति । का पुनरसाचारमा ? प्रत्यगात्मा । नबसौ नित्यल. न हि स्वयमेव स्वस्याऽलब्धो भवति । सत्यम् , प्रकृतिमेलनात्त. धर्मतामुपगतो विनष्टस्वरूप इव भवति । प्रकृत्या हि नित्यसम्बद्धः पुरुषः । तथाविधश्च सम्बन्धो यथा परस्पर विवेको न शायते । अन्यो- न्यधर्माश्चान्योऽन्यत्राऽध्यस्यन्ते । यथा क्षीरोदके लम्पृक्ते न ज्ञायते विवेकः-इयत् क्षीरमियदुदकमिति, अमुषिमन्नवकाश क्षीरममुस्मिन्नवकाश. उदकमिति । यथा का अग्न्ययोगोलकयोरमिसम्बद्धयोयें अग्निधर्मा उष्णत्वभास्वरत्वादयः ते अयोगोलके ऽध्यस्यन्ते। ये था अयोगोलक धर्माः काठिन्यदेध्यादयः ते मावध्यस्थन्ते । एवं हि तत्र प्रतिपत्तिः- एक वस्तु उष्ण दीर्धे भास्वरं कठिनमिति । तदिहापि पुरुषधर्माश्चैत न्यादयः प्रकृतावस्यस्यन्ते । प्रकृतिधर्माश्च सुखदुःखमोहपरिणामादयः पुरुषे । ततश्च एक वस्तु चेतनं सुखादिकलिल परिणामीति व्यवहारः। वस्तुतस्तु तस्मिन् सधाते अचेतनांशः परिणामी ! चेतनांशस्तु तमनुधावति । येन येन रूपेण परिणमति तेन तेनाऽभेदाध्यासमापद्यते। १. बृद्ध उ. १.४..