पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अशुचिकराणि] उज्वलांपते प्रथमः प्रश्नः । अतोऽन्यानि दोषवन्त्य शुचिकराणि भवन्ति ॥१९॥ उक्तव्यतिरिक्तानि दोषवन्ति कर्माणि दुष्प्रतिग्रहहिंसादीनि तान्य- शुचिकराणि भवन्ति ॥ १९॥ दोष वुध्वा न पूर्वः परेभ्यः पतितस्य समाख्याने स्थावर्जयेत्वेनं धर्मेषु ॥ २० ॥ पतितस्य दोषं परैरविदितं बुध्वा परस्य समाख्याने पूर्वो न स्यात् । परैरविदितं स्वयं विद्वानपि न परेभ्यः पूर्वमाचक्षीत । किं तु स्वयं धर्मकृत्येवेन वर्जयेत् , यथा परे न जानन्ति । अन्यथा दोषवान् स्यात् ॥२०॥ इत्यापस्तम्बधर्मसूत्रवृत्तावेकविंशी कण्डिका ॥ २१ ॥ इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु- ज्ज्वलायां प्रथमप्रश्ने सप्तमः पटल; Met