पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पतनीयानि] उज्वलोपेते प्रथम प्रशनः । वृत्ति प्राप्य विरमेत् ॥ ४ ॥ गतमू।४॥ न पतितस्संव्यवहारो विद्यते ॥५॥ पतिताः स्तेनादयो वक्ष्यमाणास्तैः सह न कश्चिदपि व्यवहार कर्तव्यः । तन मनुः(१)- संवत्सरेण पतति पतितेन सहाऽऽचरन् । याजनाध्यापनाचौनान तु यानासनाशनात् ॥ इति । यानादिभिस्संवत्सरेण पतति । याजनादिभिस्तु सद्य एव ॥ ५ ॥ तथाऽपपात्रः ॥ ६॥ अपपात्राश्चण्डालादय । तैश्च संव्यवहारो न कर्तव्य ॥६॥ अथ पतनीयानि ॥७॥ द्विजातिकर्मभ्यो हानिः पतनं, तस्य निमित्तानि कर्माणि वक्ष्यन्ते ॥७॥ स्लेयमाभिशस्त्यं पुरुषवधो ब्रह्मोज्झं गर्भशातनं मा. तुः पितुरिति योनिसम्बन्धे सहापत्ये स्त्रीगमनं सुरापानमसंयोगसंयोगः ॥ ८॥ स्तेयं सुवर्णचौर्यम् । आभिशस्त्यं ब्रह्महत्या । 'ब्राह्मणमा च हत्या. मिशस्त' (२४७.) इति वक्ष्यमाणत्वात् । पुरुषवधो मनुष्यजातिवधः । तेन स्त्रीवधोऽपि गृह्यते । ब्रह्मोज्झं उज्झ उत्सर्गे। भावे घञ्। छान्दसो लिङ्ग- व्यत्ययः । ब्रह्म बेदः तस्याऽधीतस्य नाशनं ब्रह्मोज्झम् । औषधादिप्रयोगण गर्भस्य वधो गर्भशातनम् । मातुर्योनिसम्बन्धे मातृवस्त्रादौ । पितुर्योनिस. म्बन्धे पितृवसादो सहापत्ये अपत्येन सहिते स्त्रीयमन मातृवसृगमनं त. त्सुतागमनं मातुलसुतागमनं चेत्यर्थः । (२) गौडी पैष्टी च माध्वी च विशेया त्रिविधा सुरा। यथैवैका न पातव्या तथा सर्वा द्विजोत्तमैः ।। इति मानवे निषिद्धाया सुराया, पानं सुरापानम् । असंयोगाः, संयो- मानहाः प्रतिलोमादयः । तैः संयोग एकगृहवासादिः असंयोगसंयोगः । एतानि पतनीयानि ॥८॥ गुर्थीसखि गुरुसखिं च गत्वाऽन्यांश्च परतल्पान् ॥९॥ 1.म स्मृ ११.१८० २. म. स्मृ ११ ९४.