पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्वधर्मसूत्रे [(५.७.)क.२१. तथा च रसैर्गन्धानां च गन्धैर्विद्यया च विद्यानाम् ॥१५॥ अनादीनां विद्यान्तानां विनिमयो भवत्येवेत्यर्थः । असिष्ठः(१)-रसा रसैस्समतो हीनतो वा ... .. तिलतण्डुलपक्वान्नं विद्यामनुष्याश्च विहिताः परिवर्तनेन' इति । मालवे तु विशेष:- (२)रसा रसैनिमातव्या न वेव लवणं रसै.। कृतानं चाकृतानेन तिला धान्येन तलमा.॥ इति । गौतमीये तु-(३)विनिमयस्तु । रसानी रखैः । पशूनां च । न लवण- कृतानयोः। तिलानां च । ससेनाऽमेन तु पक्वस्थ सम्प्रत्यर्थ इति । तस्मा दत्र प्रतिषेधानुवृचिन शङ्कनीया । पूर्वत्र चोक्त 'ब्रह्मणि मिथो विनियोगे व गतिर्विद्यत' (१३.१७) इति । (२)विनिमयाभ्यनुज्ञानादेव विद्यादीनां विक्रयोऽपि प्रतिषिद्धो बेदितव्यः ॥ १५ ॥ अक्रीतपण्यैर्व्यवहरेत ॥ १६ ।। ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ विशतितमी कण्डिका ॥ २० ॥ मुजबल्बजैलफलैः ॥ १ ॥ अनीतानि स्वयमुत्पादितानि अरण्यादाकृतानि वा यानि पण्यःनि तैर्व्य- बहरेत मुजादिभिः ॥ १६ ॥ मुजवलबजास्तृपविशेषाः ॥ १॥ तृणकाष्ठराविकृतः ॥२॥ तृणानां विकारो रज्ज्वादिभावः । काष्ठानां विकास स्थूणादिभावः । तृणवादेव सिद्धे मुञ्जबल्बजग्रहणं विकारार्थम् ॥ २॥ नाऽत्यन्तमन्ववस्थेत् ॥ ३ ॥ प्रतिषिद्धानामपि विक्रयविनिमयाभ्यां जीवेत् । न पुनरत्यन्तमन्व- वस्येत् अवसीदेत् । तथा च गौतमा(५) सर्वथा तु वृत्तिरशतावशौद्रेण । तदप्येक माणसंशय' इति । मतुरपि-- (६) जीवितात्ययमापन्नो मोऽनमत्ति यतस्ततः । आकाशामिव पड्केन न स दोषेण लिप्यते ॥ इति ॥३॥ २. म. स्मृ १०.९४० ३. गौ ध ७ १६-२१ ४. नियमाभ्य, इति क. पु. १. गौ, ध. ७१२, २३ ६. म. स्म १०१०४