पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [(प.७.) क.२०. नाः। श्रद्धाः परिणतवयसा यौवने विषयवश्यताऽपि स्थादितीवमुक्तम् । आत्मवन्तो जितेन्द्रियाः। अलोलुपा अपणाः । अदाम्भिका अधर्मध्वजा, एकान्तप्रकाशयोरेकवृत्ताः । एवंभूतानामार्थाणां सर्वजनपदेषु यदेकान्तेनाऽव्य- भिचारेण समाहितमनुमतं वृत्तमनुष्ठानम् , न भातुलसुतापरिणयनवक- तिपयविषयम, तद्वत्तसादृश्यं भजेत । तदनुरूपं चेष्टत । न तेषामनुष्ठान निर्मूलम् । सम्भवति च वैदिकानामुत्सनपाठब्राह्मणानुभव इति ॥८॥ एवमुभी लोकाभिजयति ॥ ९ ॥ एवं श्रुतिस्मृतिसदाचारमूलमनुष्ठानं कुर्वन् उभौ लोकावभिजयति इमं चामुंच॥ ९॥ अविहिता ब्राह्मणस्य पणिज्या ॥ १० ॥ क्रयविक्रयव्यवहारो वणिज्या । सा स्वयं कृता ब्राह्मणस्य वृत्तिन विहिता प्राप्तानुवादोऽ(१)यमपवादविधानार्थ ॥ १० ॥ आपदि व्यवहरेत पण्यानामपण्यानि व्युदस्थन् ॥ ११ ॥ वाह्मणवृत्तरभाव आपत् । तस्यां सत्याम् । पण्यानाम् । (२)व्यवह पणो समर्थयो रिति कर्मणि षष्ठी । व्यवहरेत । क्रयश्च विक्रयश्च व्य. वहार, पण्यानि क्रीणीयात् विक्रीणीत चेत्यर्थः । अपण्यानि वक्ष्यमाणानि व्युदस्थन् वर्जयन् । कृत्स्नाया वैश्यवृत्तरुपलक्षणमिदम् । क्षत्रियवृतिश्च (३)दण्डापिकया सिद्धा । तथा च गौतमः-(४) तदलामे क्षत्रियः वृत्तिः । स्तदलाभे वैश्यहात्तिरिति ॥११॥ अपण्याच्याह- मनुष्यान रसान रागान् गन्धानन्नं चर्म गर्वा वशां इले. मोदके तोक्मांकण्वे पिप्पलीमरीचे धान्यं मांसमायुधं सुकृताशां च ॥१२॥ मनुष्या दारदासादयः। रसा गुडलवणादयः, क्षीरादयो वा । रामाः कुसुम्भादयः रज्यन्तेऽनेनेति । रज्यन्त इति वा रागा वस्त्रादयः। १. नापदि विधानाथ' इति क पु ३. कश्चित् दण्डे प्रोताम् अपूपान् कस्यचित् निकटे निक्षिप्य बहिर्गत्वा पुनः प्रति- निवृत्य तं पृष्टवान्-क्व मे दण्ड इति । तेनोक्तम्-मूषिकैक्षित इति । तदा तेनाऽर्थापत्या कल्पित यदा दण्डोऽपि मूषिकैमक्षितः तदा किमु वक्तव्यमपूपास्तैमक्षिता इति । अम दण्डा- पूपिकान्याय ४. गो. ध. ७ ६,