पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० ९ भोज्यान] उज्वलोपेतं प्रथमः प्रश्नः । सर्वतोपेतं वाायणीयम् ॥ ८॥ सर्वत उपेतं सर्वतोपेतम् । छान्दसो गुणः । उपेतमयाचितोपप. नम् । तत्सर्वतोऽपि भोज्यमिति वाायणीय मतम् ।। इदानी स्वमतमाह- पुण्यस्येप्सतो भोक्तव्यम् ॥ ९ ॥ कण्वकुस्सयोः पक्षौ समुच्चितावाचार्यस्य पक्षः(१) ॥ २॥ पुण्यस्याऽप्यनीयसतो न भोक्तव्यम् ॥ १० ॥ यःप्रार्थितोऽपि नेत्यसकदुकन्या कथांविदापादितेप्ल.(२) सोऽनी रसन्नित्युच्यते, तस्य पुण्यस्याऽप्यभोज्यामिति । अपर आह-अनोपलत इति कर्तरि षष्ठी। पुण्यस्याप्यन्नं न भोज्यं, यदि भिक्षमाणः पूर्ववैरा- दिना स्वयमीप्सन भवतीति ॥१०॥ यतः कुतश्चाऽभ्युद्यतं भोक्तव्यम् ॥ ११ ॥ 'सर्वतोपेत' (१८.) मित्युक्तमेव पुनरुच्यते विशेषविवक्षया ॥११॥ नाऽननियोगपूर्वमिति हारीतः ॥ १२ ॥ 'अद्य तुभ्यामिदमाहारिष्यामि तत्रभवता ग्राह्यमिति निवेदनं नियो गः । तदभावः अनियोगः । पुनर्नलमासः । द्वौ नौ प्रकृतमर्थ गम. यत । अननियोगो नियोगः तत्पूर्व चेदभ्युद्यतं न भोज्यमिति ॥ १२ ॥ अथ पुराणे श्लोकावुदाहरन्ति- (३)उद्यतामाहृतां भिक्षा पुरस्तादप्रवेदिताम् । भोज्यां मेने प्रजापतिरपि दुष्कृतकारिणः ।। न तस्य पितरोऽश्नन्ति दश वर्षाणि पञ्च च । न च हव्यं वहत्यग्निर्यस्तामभ्यधिमन्यते ॥ इति॥१३॥ १. 'आचार्यस्य पक्षण' इति क, पु. २. सोऽल्पेप्सुस्सन्ननीप्सन्नित्युच्यते' इति क पु. ३. भाद्यतनभविष्यत्पुराणीयमिदं वचनम् । Cf मनु ४, २५१ २५२,