पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ षष्ठः पटलः॥ एवं तावनिमित्तदुष्टं जातिदुष्टं कालदुष्टं चाऽभोज्यमुक्तम् । तत्र नि. मित्तदुष्टं 'यस्थ कुले नियेते(पृ. ९२.) त्यादि । जातिदुष्ट कलादि। कालदुष्ट पर्युषितादि । इदानी प्रतिग्रहाशुचीनि कानिचिदनुनाय कानिचित् प्रतिषेधति- मध्चामं मार्ग मांसं भूमिर्मूलफलानि रक्षा गव्यू- तिनिवेशनं युग्यघासश्चोग्रतः प्रतिगृह्माणि ॥ १ ॥ मधु पक्कमपक्कं वा । आम तण्डुलादि । मृगस्य विकारो मार्ग मांसम् । भूमिः शालेयादिक्षेत्रम् । विश्रमस्थानमिन्यन्ये । मूलकलानि(१) मूलकाम्रा दीनि । रक्षा अभयदानम् । गब्यूतिगोमार्गः । निवेशन गृहम् ! युग वहती ति युग्यो बलीपर्दः । तस्य घासो भक्ष्यं पलालादि। एतान्युनतोऽपि प्रति याणि प्रतिमाह्याणि अदुर्भिक्षेऽपि । उग्र. पापकर्मा द्विजातिः, वैश्यावा शुद्रायां जातः । उनग्रहण तादृशानामुपलक्षणम् ॥ १॥ एतान्यपि नाऽनन्तेवास्याहतानीति हारीतः ॥ २ ॥ एतानि मध्वादीन्यपि अन्तेवास्थाहृतान्येव प्रतिग्राह्याणि, न स्वयमुग्रत इति हारीत आचार्यों मन्यते ॥२॥ आम वा गृहीरन् ॥ ३ ॥ पूर्वोक्तेष्वामं स्वयमेव वा गृहीरन् द्विजा इति(२) हारीतस्पेय पक्षः ॥ ३ ॥ कृतान्नस्य वा विरसस्थ ॥४॥ आमस्याऽलामे कृतानस्याऽपि बिरसत्य लवणादिरसासंयुक्तस्थ । षष्ठी निर्देशात स्तोकम् । स्वयमन्तेवास्याहृतं वा गृद्धीरन् ॥ ४॥ न सुभिक्षाः स्युः ॥ ५॥ अनन्तरोतविधानद्वये यद्गृहीतमन्नं तेन सुभिक्षाः सुहिता न भवेयुः रेव । यावता प्राणयात्रा भवति तावदेव गृहीर , न यावता सौहित्यं तावदिति ॥ ५॥ स्वयमप्यवृत्तौ सुवर्ण दत्वा पशुं वा भुञ्जीत ॥६॥ यदि तु दुर्भिक्षतया आत्मनोऽपि वृसिन लभ्यते प्रागेव पोष्यवर्गस्य, १. मूलकन्दादीनि इति क. पु २ हारीताचार्यस्य, इति छ. पु.