पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्म सूत्रे [(५.५.)क.१७ क्रव्य मोसं तदेव केवलं येऽदल्ति ते व्यादाः गृध्रादयः। ते ऽध्यभक्ष्याः हंसभासचक्रवाकसुपणाश्च ॥ ३५ ॥ हंसः प्रसिद्धः। भास श्येनाकृतिः पीनतुण्डः । चक्रवाक: मिथुनचरः । सुपूर्णः श्येनः । एते चाऽभक्ष्या ॥३५॥ क्रुञ्चक्रौञ्च वाणिसलक्ष्मणवर्जम् ॥ ३६ ॥ मुचा वृन्दचाराः क्रौचा मिथुनचराः । ते चाऽभक्ष्याः । सुत्रे को. श्वेति विभक्तिलोपरछान्दसः । किमविशेषेण क्रुश्चक्रौञ्चा अभक्ष्याः। ने. त्याह-~~वार्धाणसलक्ष्मणवर्जम् । श्वेतो लोहितो वा मूर्धा येषां ते लक्ष्मणाः त एवं विशेष्यन्ते-वाणिसा इति । वा चर्म तदाकारा नालिका येषां ते वाणिला । एवंभूतान् लक्ष्मणान् वर्जयित्वा कुञ्चकोशान भक्ष्या इति। अन्ये त्याहु-क्रयाद' इति प्राप्तस्य प्रतिषेधस्य क्रुश्चादिषु चतुर्थ. प्रतिषेध इति । सत्र लक्ष्मणा सारसी लक्ष्मणवर्ज मिति(१) 'डापोस्सं- शाच्छन्दसोरिति हस्वः। एवं कुश्वादिशब्दस्याऽध्यजादिटावन्तस्य ॥३६॥ पञ्चनखाना(२) गोधाकच्छपवापिट्छर्घकखना- शशपूतिखषवर्जम् ॥ ३७॥ पश्चनखानरवानरमार्जारादयः। तेषांमध्ये गोधादीन् सप्त वर्जयित्वा अ. न्ये अभक्ष्याः । गोधा कुकलालाकृतिर्महाकाया । कच्छपः कूर्मः । श्वाबिट व राहविशेषः, यस्य नाराचाकाराणि लोमानि। शर्यक्रः शल्यकः, यस्य च. मणा तनुवाणं क्रियते । श्वाक्टिशर्यक इति युक्तः पाठः । एके तु छकारं पठन्ति ! छकारात्पूर्वमिकारम् । खजो मृगविशेषः, यस्य शृङ्गं तैलभा. जनम् । शशः प्रसिद्धः। पूतिक्षण । शशाकृतिः हिमपति प्रसिद्धः ॥३७॥ अमक्ष्यश्चेटो मत्स्यानाम् ॥ ३८ ॥ मत्स्यानांमध्ये चेटाख्यो मत्स्यो न भक्ष्यः ॥ ३८ ॥ सर्पशीर्षी मृदुरः कव्यादो ये चाऽन्ये विकृता यथा मनुष्यशिरसः॥३९॥ सर्पस्येव शिरो यस्य सोऽपि मत्स्यो न भक्ष्यः । मृदुरो मकरः ये चक्रव्यमवाऽन्ति शिशुमारादयः तेऽप्यभक्ष्याः। ये च उक्तभ्योऽन्ये ९. पा, तू. ६ ३.६३ २. पञ्चपञ्चनखा भक्ष्या., इत्यत्र द्वितीयसप्तमवर्जिताना ग्रहणम् !