पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्म सूत्रे [(प.५.) क.१७. तथा च गौतमः- (१) मद्यं नित्यं ब्राह्मणस्य क्षत्रियवैश्ययोस्तु ब्रह्मचारिणोरिति ॥२२॥ तथैलकं पयः ॥ २२ ॥ अवि एलका । तस्याः पयः क्षीरमपेयम् ॥ २२ ॥ उष्ट्रीक्षीरभृगीक्षीरसन्धिनीक्षीरथमसूक्षीराणीति ॥२३॥ उष्ट्रीमृग्यौ प्रसिद्धे। या गर्भिणी दुग्धे सा सन्धिनीति शास्त्रान्तरे प्रसि. द्वारा एककालदोहेत्यन्ये । एकस्मिन् प्रसवे या अनेक गर्भ सूते, सा यमसूः। उष्ट्रयादीनां क्षीराण्यपेयानि । इतिकरणमेवे प्रकाराणामन्येषामे कशफादीनां क्षीरमपेयमिति । तथा च मनु:- (२)'भारण्यानां च सर्वेषां मृगाणां महिषी विना । स्त्रीक्षीरं चैव यानि सर्वशक्तानि चैव हि ॥ अनिर्दशाया गोः क्षीरसौष्ट्रमैकशफ तथा । आविकं सम्धिनीक्षीरं विवत्सायाश्च गोः पयः॥ इति ॥२३॥ धेनोश्चाऽनिर्दशायाः ॥ २४ ॥ धेनुनवप्रसूता गौः । चकारादजामहिन्याश्च । (३) अजा गावो महि ज्यश्चेति मानवे दर्शनात् ॥२४॥ तथा कीलालौषधीनां च ॥२५॥ कौलालौषधयः सुरा ओषधयः । ताला चविकारभूतमन्नमनाधम्॥२५॥ (४)करञ्जपलण्डुपरारीकाः॥२६॥ (५)करजं रक्तलशुनम् । पलण्ड श्वेतम् । परारीका कृष्णम् । (६)मण्ड. १ गौ. घ. २.२० मछ नित्य ब्राह्मणः, इत्येव सूत्रम् ।। २ म. स्मृ. ५.९,८. ३ म. स्मृ. नाय श्लोको मानवे उपलभ्यते । प्रत्युत 'अनिर्दशाया गोः क्षार (५. ८) इति इलोकव्याख्यानावसरे कुल्लूकभन "गोरिति पेयक्षारोपलक्षणार्थम् । तेनाजामहिध्यो- रपि दशाहमध्ये प्रतिषेधः, इति लेखनात् 'अजा गावो महिष्यवे'त्यस्याऽमानवत्वमेवाऽनु- मायते । वस्तुतस्तु पाराशरीयं वचनामदम् । (परा. स्मृ. ३, ४.) तत्रैव दर्शनात् ॥ ४. कलजपलाण्डपरारीकाः इति क पु. परारिका इति. घ पु. अनेनैव प्रमाणेन 'न कला भक्षयेत्' इत्यादौ कलञ्जशब्दो रक्तलशुनपर इत्य. स्माभियाख्यातं नजनिरूपणावसरे मीमांसान्यायप्रकाशव्याख्यायां सारषिदेचिन्याम् । तत्र प्रमाणान्तरमप्युपन्यस्त त त,त्रैव दृष्टव्यम् ।। ६. इण्डभाड्यया इति से.पु. सुहण्डुभाख्यया इति. क. पु.