पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अभोज्यामानि] उज्वलोपेलले प्रथम प्रश्नः। कृतानं पर्युषितमखाद्यापेथानाचम् ॥ १७ ॥ कृतान पक्वान्नं तत्पर्युषितं पूर्चे पक्वं सत् अखाद्यम् । अपेयमनाद्य च यथायोग स्वरविशदं दवं मृदुविशदं सिद्ध च ॥ १७ ॥ शुक्तं च ॥ १८॥ शुक्त यत्कालपाकनोऽम्लीभूत तदपर्युषितमपि अखाद्यापैथा. नाद्यम् ॥ १८॥ फाणितपृथुकतण्डुलकरम्ध(१) भरूजसक्तुशाकमांसपि. ष्टक्षीरविकारौषधिवनस्पतिमूलफलवर्जम् ॥ १९ ॥ अनन्तरोक्त विधिद्वयं फाणितादीन वर्जयित्वा द्रष्टव्यम् ! फाणिलं पा. नविशेष । इक्षुरस इति केचित् । (२)म्रष्टानां वीहीण तण्डलाः पृथूकताः पृथुका । करम्बो इधिसक्तुसमाहारः यः करम्भ इति प्रसिद्धः । वे- देऽप्युभयं भवति(३) 'यत्करबर्जुहोति । (४}"धानाः करम्भः परि- वाप" इति। भरूजाः भ्रष्टायवा। क्षोरावकारो दध्यादि। प्रसिद्धमन्यत् ॥ अथ 'शुक्तं च त्यस्य विधेः शेष:- शुक्त चाऽपरयोगम् ॥१०॥ परेण द्रव्यान्तरेण योगो यस्य तत् परयोग, सतोऽन्यदपरयोगम् । तदेव शुक्तं वज्यम् । यत्तु दध्यादि द्रव्यान्तरसंसृष्टं शुक्तं तभोज्यमेव । एवं च पूर्वत्रैवापरयोगामान विशेषणं बक्तव्यम् । इदमेव वा सुन्नमस्तु । सूबरयकरणं त्वाचार्यप्रवृस्तिकतम् । यथा 'ललावृक्येकसकोलूकशब्दा' (पृ. ५८) इति पूर्व सामान्यनाऽभिधाय 'सलावृक्यामेकसक इति स्वप्न पर्यान्त' (पृ. ६५)मिति पश्चाद्विशेष उक्तः ॥ २० ॥ सर्व मद्यमपेयम् ॥ २१ ॥ मद्य मदकर तत्सदमपेयम् । अत्र स्मृत्यन्तरवशाद्यवस्था । तत्र मनु:- (A) गौडी पैष्टा च माध्वी च विज्ञेया त्रिविधा सुरा । यथैवैका ने पातव्या(६) तथा सर्श द्विजोत्तमः । इत्त । सुराव्यतिरिक्तं तु मधं ब्राह्मणस्य नित्यमपेयम् । १. 'मरजेति ख. पु. भरिजेति क. पु. २ भर्जिताना इति. ख पु 3.ते. ब्रा ३८ १४. ५.म. स्मृ.११ ९४ ६ तथैवान्या' इति ग पु. आप० ध० १३