पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [(५.५.) क.१६. द्विरित्य के !!६॥ तुल्यविकल्पः ॥ ६॥ दक्षिणेन पाणिना सव्यं प्रोक्षय पादौ शिरश्चेन्द्रि- याण्युपस्पृशेत् चक्षुषी नासिके श्रोत्रे च ॥७॥ दक्षिणन पाणिना सध्यं पाणि प्रोक्ष्य तथा पादौ शिरश्च, इन्द्रियाण्युपस्पृशेत् अ' गुलीभिः । सर्वेषामिन्द्रियाणां प्रसङ्गे परिसञ्चष्टे-चक्षुषी नासिके श्रोत्रे चे' ति । इन्द्रियाणीति वचन स्वरूपकथनमात्रम् । तत्राऽङ्गुष्टानामिकाभ्यां चक्षुषी । केवियुगपत् , केचित्पृथक् । अङ्गुष्ठप्रदोशनीभ्यां नासिके । अ. कुष्ठकनिष्ठिकाभ्यां श्रोत्र । (१)चत्र सहभावस्थाऽशक्यत्वान् पृथग्भा वस्य निश्चितत्वात् पूर्वत्रापि पृथगेवेति युक्तम् ॥ ७ ॥ अथाऽप उपस्पृशेत् ॥ ८॥ इन्द्रियस्पर्शनान तरं हस्तौ प्रक्षालयेत् ॥८॥ मोक्ष्यमाणस्तु प्रयतोऽपि बिराचामेहिः परिमृ. जेत्सकृदुपस्पृशेत् ॥९॥ भोजनं करिष्यन् प्रयतोऽपि द्विराचमन कुर्यात् । अत्र विशेष:-द्विः परिमृजेत् , न विकल्पेन निः! सदुपस्पृशेत , न विकल्पेन द्विः । 'प्रयतोऽपीति वचनादप्रायत्ये सर्वत्र द्विराचमनमाचार्यस्याऽभिप्रेतम् । त स्मृत्यन्तरम्- 'भुक्त्वा क्षुत्वा च सुप्त्वा च ष्ठीवित्वोक्त्वाऽनृतं वचः। आचान्तः पुनराचामेहासो विपरिधाय च ॥९॥ श्यावान्तपर्यन्तावोष्ठावुपस्पृश्याऽऽचामेत् ॥ १० ॥ दन्तमूलात्मभृत्योष्ठौ । तत्राऽलोमकः प्रदेशः श्यावः । सलोमकः। तत्पर्यन्तादोष्ठावुपस्पृश्याऽऽचामेत् । ओष्ठयोरलोमकप्रदेशमङ्गुल्या(२) काष्ठादिना वोपस्पृश्याऽऽचादिति ॥ १० ॥ तस्यान्तः १. अत्र सहभावस्याशक्यत्वात् पृथगापिक्रियते । अत्र पृथक्भावस्य निश्चितत्वात् पूर्वत्रापि पृथगेवेति युक्तम् इति ख. च. पु. । युक्तमित्यन्ये' इति. क पु. २. अमृल्यात्मकनिष्ठादिना वेति क. पुस्स्तकेऽपपाठः ।