पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आचमनविधिः उज्वलायते प्रधना प्रश्नः । लिष्टन्नाऽऽचामेत् प्रहो था॥ १ ॥ तिष्ठन् प्रहलो वा नाचामेत् । नायं प्रतिषेधः शक्यो वक्तुम् । कथम् ? 'आसीनस्त्रिराबामे' (१६२.) दिति वक्ष्यति । ततश्च यथा शयानस्थाच. मन न भवति तथा तिष्ठतः प्रहस्य च न भवति । एवं तर्हि शौचास्या. चमनस्थ नायं प्रतिषेधः । कि तर्हि ? पानीयपानस्य प्रतिषेधः । तथा गौतमः-(१) नाञ्जलिना जलं पिबेत् । नतिष्ठ' निति । अपर आह-अस्मा देव प्रतिषेधात्वचित्तिष्ठतः प्रहस्य चाऽऽचमनमभ्यनुज्ञातं भवति । तेन भूमिगतास्वप्स्वि' त्यत्र तीरस्याऽयोग्यत्वे ऊरुदध्ने (२)जानुदने वा जले स्थितस्याऽचमन भवति ! गौतमीयेऽपि(३) न तिष्ठन्नुभृतोदकेनाचा में दिति सूत्रच्छेदादुद्धृतोदकेनैव तिष्ठतः प्रतिषेध इति ।। १ ।। अथाssचमनविधि:--- आसीनस्त्रिाचामेवृदयङ्गमाभिरद्भिः॥२॥ आद्भिः तृतीया द्वितीयार्थे । अत्राऽनुक्ते स्मृत्यन्तस्वशा(४)दुपस्क्रियते । आसीनः शुचौ देशे, नासने, भोजनान्ते स्वासने । दक्षिणं बाहु(५) जान्व भनरे कश्या प्राङ्मुख उपविष्टः उदङ्मुखो वा हृदयङ्गमा(६) अप करत. लस्थासु यावतीषुमाषो निमज्जति तावत्ती. फेनबुबुदहिता वीक्षिता- स्विराचामेत् पिबेत् , ब्राह्मणः हृदयङ्गमा, क्षत्रियः कण्ठगताः, वैश्यस्ता. लुगताः, शूद्रो जिह्वास्पृष्टास्सकृत् ॥ २॥ (७)त्रिरोष्ठौ परिमृजेत् ॥३॥ परिमृज्यात् ॥ ३॥ द्विरित्येके ॥ ४॥ तुल्यविकल्पः ॥ ४॥ मकृपस्यू त् ॥५॥ मध्यमाभिस्तिभिरङ्गुलीभिरोष्ठौ ॥ ५॥ १.गौ ध.९९,१०, २. नाभिदध्ने, इति च. पु ३ गौ. ९. १० गौतमोऽपि न तिष्ठन्नुभृतोदकेनाचामेत् इति सूत्रभेदादुद्धृतो दकेनैव तिष्ठतः प्रतिषेधमाह" इति क. पु. ४. "उपस्तूयते' इति ग. पु. ५. ऊर्वन्तरे इति. ख ग. पु. ६. आप: इति. ख. ग. यु. ७. इदमग्रिम च सूत्रमेकीकृतं. ग. पुस्तके. आप०ध०१२