पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
87
संकरसरः (१२१)

वतस्सरसत्वं वामदेवेत्यनेन तद्व्यतिरेकि वक्रत्वं च सूच्यते । अत्र पूर्वार्धोत्तरार्धयोः अक्षरपञ्चकानुलोम्यप्रातिलोम्यलक्षणशब्दालङ्कारौ परिसङ्ख्यया अर्थालङ्कारेण संसृष्टौ ॥

इत्यलङ्कारमणिहारे संसृष्टिसरो विंशत्युत्तरशततमः.


अथ संकरसरः (१२१)


यत्रान्योन्यमलंकाराः क्षीरनीरनयादमी ।
संकीर्येरन् संकरोऽयमिति काव्यविदो विदुः ॥

क्षीरनीरन्यायेनास्फुटभेदालंकारमेळने संकर इत्यर्थः ॥

सोऽयमङ्गाङ्गिभावेन समप्रधान्यतस्तथा ।
संदेहेन तथा चैकवाचकानुप्रवेशतः ॥
चतुर्था संकरः प्रोक्तश्श्रीमदप्पयदीक्षितैः ।
एवं नृसिंहाकृतयः पञ्चालंकृतयो मताः ॥

एवं संसृष्टिप्रभृतयः पञ्चालंकृतयो नरसिंहाकारा इत्यर्थः ॥

अप्रधानालंक्रियया प्रधानालंक्रिया यदि ।
ऊज्जीव्येत तदाऽङ्गाङ्गिभावसंकर इष्यते ॥

यथा--

 वदनसुषमासुधाम्बुधिनिमग्नकुसुमशरकरिकिशोरेण । शुण्डाग्रमिवोन्नमितं मृगमदतिलकं विभात्यहिनगेन्दोः ॥ २१३६ ॥