पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
81
अनुपलब्धिसरः (११७)

योक्त्या पुष्पवन्तौ' इत्यमरः । ऐताम् अगच्छताम् । अयमदन्तस्तान्तोऽप्यस्ति-- ‘पुष्टिह्रासौ कुमुदसुहृदः पुष्पवन्तोपरागे’ इति, ‘विलोचने विभोर्यस्य विख्याते पुष्पवत्तया’ इत्युभयधाऽपि प्रयोगदर्शनात् । अत्र सर्वत्र श्लेषोज्ज्वीवितत्वं तुल्यम् ॥

इत्यलङ्कारमणिहारे अर्थापत्तिसरः षोडशोत्तरशततमः.


अथानुपलब्धिसरः (११७)


यद्योग्यानुपलब्धेस्स्यादभावस्यावधारणम् । कृतिनोऽनुपलब्धिं तां रम्यां विदुरलंकृतिम् ॥

 योग्यानुपलब्धिजन्यमभावावधारणमनुपलब्धिर्नामालंकारः । रम्यत्वं तु सर्वालंकारानुगतमेव ॥

 यथावा--

 दोषलवोऽपि यदि स्यात्त्वयि सुदृशां तदुपलब्धिरेव स्यात् । कल्याणगुणैकनिधे कलङ्क उपलभ्यते हि सकलेन्दौ ॥ २१२६ ॥

 अत्र भगवतो यदि दोषलवोऽपि स्यात् तदा सुदृशां 'श्रुतिस्मृती तु विप्राणां चक्षुषी द्वे विनिर्मिते’ इत्युक्तश्रुतिस्मृतिरूपचक्षुष्मतां तदुपलब्धिस्स्यादेवेति तत्सानथया अनुपलब्ध्या दोषगन्धानवकाशनिर्धारणादनुपलब्धिर्नामालंकारः । कल्याणगुणैकनिधे इति संबोधनं दोषात्यन्ताभावाभिप्रायगर्भम् । सकलेन्दौ संपूर्णे चन्द्रमसीत्यर्थः । कलङ्क उपलभ्यते । सत्त्वादेव तदुपलब्धिः । यदि न स्यात्तर्हि नोपलभ्येतैवेति व्यतिरेकदृष्टान्तः ॥

इत्यलंकारमणिहारे अनुपलब्धिसरस्सप्तदशोत्तरशततमः.