पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/८४

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
76
अलंकारमणिहारे

 यथावा-

 वसुदेवसुतो भगवांत्सूतोऽजनि पारदश्च युक्तमिदम् । कथमितरथा रसो वै स इति श्रुतिवचनमर्थवत्त्वमियात् ॥ २११८ ॥

 भगवान् वसुदेवसुतः सूतः पारदश्च अजनीति युक्तम् । वस्तुतस्तु सूतः अर्जुनस्य सारथिः । जनिपारद इति समस्तं पदम् । जनेः जन्मनः पारं ददातीति पारदः जन्मपरंपरापारभूतनिश्श्रेयसप्रद इत्यर्थः ॥

जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ।
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥

इति गानात् । अनेन--

संसारार्णवमग्नानां विषयाक्रान्तचेतसाम् ।
विष्णुपोतं विना नान्यत्किंचिदस्ति परायणम् ॥
दुर्गं संसारकान्तारमपारमभिधावताम् ।
एकः कृष्णनमस्कारो मुक्तितीरस्य देशिकः ॥

 इत्यादिकं स्मार्यते । इतरथा एवं सूतत्वपारदत्वाभावे ‘रसो वै सः’ इति श्रुतिवचनं कथमर्थवत्स्यात् तस्य रसत्वादेव सूतत्वपारदत्वे युक्ते इति भावः । ‘रसस्सूतश्च पारदः’ इति त्रयाणामपि शब्दानां तुल्यार्थकत्वानुशासनात् । रसः आनन्दमय इति वस्तुस्थितिः । अत्र भगवतो रसत्वान्यथानुपपत्त्या सूतत्वपारदत्वे कल्प्येते ।

 यथावा--

 अञ्जनमञ्जनगिरिपतिमञ्जुलसुषमां जहार मन्येऽहम् । सुदृशामिदमक्षिगतं ददृशे कथमन्यथा तदिदम् ॥ २११९ ॥