पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
71
अर्थापत्तिसरः (११६)

 यथा--

 नन्दकिशोरकरदरुचिबृन्दं नितरामचूचुरत्कुन्दम् । उपपद्यतामपरथा विपिनभवस्यापि दान्तताऽस्य कथम् ॥ २१०९ ॥

 कुन्दस्य विकारः पुष्पं कुन्दं ‘पुष्पमूलेषु बहुळम्' इति बहुलग्रहणाद्वैकारिकाणो लुक् । ‘द्विहीनं प्रसवे सर्वम्’ इति क्लीबता । इदं कर्तृ माध्यकुसुममित्यर्थः । नन्दकिशोरकरदरुचिबृन्दं कर्म अचूचुरत् अचोरयत् । अपरधा एवं चौर्याभावे विपिनभवस्य आरण्यस्यापि अस्य कुन्दस्य दान्तता दन्तसंबन्धिता कथमुपपद्यतां न कथंचिदप्युपपद्यत इत्यर्थः । कुन्दशब्दस्य दवर्णान्तत्वाद्दान्तत्वमिति स्तुस्थितिः । अत्र कुन्दस्य दन्ततान्यधाऽनुपपत्त्या भगवद्दन्तरुचिबृन्दचौर्यनिर्णयनिबन्धनादर्थापत्तिः ॥

 यथावा--

 त्वत्पदगतिविद्वेष्टाऽशुचं ततः प्राप्य जननि शुण्डालः । चण्डालोऽभून्मन्ये मातङ्गत्वं कथंन्वितरथाऽस्य ॥ २११० ॥

 हे जननि! शुण्डालः गजः त्वत्पदगतिविद्वेष्टा त्वच्चरणगमनद्वेषी तव पदं स्थानं परमव्योम तस्य गतिः प्राप्तिः तस्याः विद्वेष्टेति च । अतएव ततः विद्वेषात् शुचं शोकं प्राप्य । पक्षे अशु चं इति छेदः । अशु शुवर्णरहितं यथास्यात्तथा चं 'न गिरा गिरा’ इति न्यायेन तत्रैव शुवर्णस्थाने चकारं प्राप्य चण्डालोऽभूत् । ‘यस्तु नारायणं द्वेष्टि तं विद्यादन्त्यरेतसम्' इतिवत् लक्ष्मीपदगतिविद्वेषस्य फलमिदमिति भावः । शुण्डाल