पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/७३

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
65
शब्दप्रमाणसरः (११५)

 हे विश्वात्मन्! इदं अत्रैव उदाहरिष्यमाणवचनस्थविश्वात्मशब्दप्रत्यभिज्ञापकम् । स इत्येतत् वेधःप्रभृतिषु सर्वेष्वप्यनुषञ्जनीयम् । सः लोकस्रष्टृतया प्रख्यातः वेधाः चतुर्मुखः, सः जगत्संहर्तृत्वेन प्रसिद्धः कृत्तिवासाः पिनाकी, सः अमराधीशत्वेन प्रथितः वृद्धश्रवाः इन्द्रश्च सान्ताः अन्तेन सह वर्तन्त इति तथोक्ताः । विनश्वरा इत्यर्थः । पक्षे उक्तास्सर्वेऽपि शब्दास्सकारान्ता इत्यर्थः । सः ‘अजरोऽमृतः । विजरो विमृत्युः । सत्यं ज्ञानमनन्तम्' इति श्रुतिशतख्यापितः त्वं नान्तः अनन्तः नशब्दपूर्वको बहुव्रीहिः । नित्य इत्यर्थः । पक्षे विश्वात्मन्निति शब्दो नकारान्त इत्यर्थः । अत्र मानं प्रमाणं युष्माकं ते च त्वं च यूयं तेषां ‘त्यदादीनां मिथस्सहोक्तौ यत्परं तच्छिष्यते’ इति परैकशेषः । समाख्या नामैव । अत्र--

ब्रह्मादिषु प्रलीनषु नष्टे लोके चराचरे ।
आभूतसंप्लवे प्राप्ते प्रलीने प्रकृतौ महान् ।
एकस्तिष्ठति विश्वात्मा स तु नारायणः प्रभुः ॥

इति श्रीमन्महाभारतवचनं,

ब्रह्मा शम्भुस्तथाऽर्कश्च चन्द्रमाश्च शतक्रतुः ।
एतदाद्यास्तथैवान्ये युक्ता वैष्णवतेजसा ॥
जगत्कार्यावसानेषु वियुज्यन्ते स्वतेजसा ।
वितेजसश्च ते सर्वे पञ्चत्वमुपयान्ति च ॥

 इति श्रीविष्णुधर्मोत्तरवचनं चार्थतः प्रत्यभिज्ञाप्यते । अत्र विवक्षितेऽर्थे समख्यायाः प्रमाणता ॥

 यथावा--

 नतनिवहेन क्रीतो नितरां चक्री समिद्धया