पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
63
शब्दप्रमाणसरः (११५)

प्रकर्षात्’ इति, ‘निरपेक्षो रवश्श्रुतिः । सामर्थ्यं लिङ्गम् । समभिव्याहारो वाक्यम् । उभयाकाङ्क्षा प्रकरणम् । देशसामान्यं स्थानम् । यौगिकश्शब्दसमाख्या' इति संक्षेपः । अत्र प्रकरणवाक्यरूपशब्दप्रतिपाद्यार्थद्वयश्लेषमूलाभेदाध्यवसायोत्तम्भितेन प्रकरणाद्बलीयसा वाक्येनोक्तार्थसमर्थनम् ॥

 यथावा--

 नाम्नैव माधवे त्वय्यात्तदरारिणि कुमार एष इति । वाक्यं कश्श्रद्दध्याच्छ्रुतिलिङ्गाभ्यां हि दुर्बलं वाक्यम् ॥ २०९८ ॥

 हे भगवन्! नाम्नैव माधवे ‘माधवं वेङ्कटगिरौ' इति भगवच्छास्त्रोकेरिति भावः । अनेनाभिधानश्रुतिर्दर्शिता । आत्ते श्रीभगवद्रामानुजाचार्यात्स्वीकृते दरारिणी शङ्खचक्रे येन तस्मिन्निति लिङ्गम् । त्वयि एष कुमारः स्कन्द इति केषांचिन्मूर्खाणां वाक्यं कश्श्रद्दध्यात् । हि यस्मात् श्रुतिलिङ्गाभ्यां तदपेक्षया वाक्यं दुर्बलम् । पूर्वोदाहरणे प्रकरणाद्वाक्यस्य प्राबल्यं प्रादर्शि । अत्र तु श्रुतिलिङ्गापेक्षया तस्य दौर्बल्यमिति विशेषः । अन्यत्तुल्यम् ॥

 प्रकरणं यथा--

 यत्रक्ववाऽस्तु तव गुणकथाप्रकरणं तदेव साधुजनैः । आद्रियते न स्थानं परमपि तत्प्रकरणाद्धि हीनबलम् ॥ २०९९ ॥

 हे भगवन्! तव गुणकथायाः प्रकरणं प्रस्तावः यत्रक्ववा अस्तु अप्रशस्तेऽपि देशे अस्त्वित्यर्थः । तदेव त्वद्गुणकथाप्रकरणमेव साधुजनैः भागवतैः आद्रियते परं स्थानं परमं पदमपि नाद्रियते तेषां भगवत्कथैकभोग्यत्वादिति भावः । तत्