पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
62
अलंकारमणिहारे

 लिङ्गं यथा--

 भुवनोपकारहेतोस्तव नो भगवन् प्रवृत्तिरेकाऽपि । किन्तु स्वार्था मन्ये निखिलशरीरत्वमेव तद्वदति ॥ २०९६ ॥

 अत्र भगवतश्रीनिवासस्य ‘यस्य पृथिवी शरीरम्’ इत्यादिश्रुतिप्रसिद्धसर्वोपकारकसर्ववस्तुशरीरकत्वलिङ्गेन तत्प्रवृत्तेः स्वप्रोजनैकतत्परत्वं समर्थितम् ॥

 ननु लिङ्गस्य सामर्थ्यात्मकस्य शब्दप्रमाणबहिर्भूततया शब्दप्रमाणप्रस्तावे कथमुदाहरणमिति चेन्न, स्वतस्तस्य प्रमाणताविरहेण वेदानुमापकतयैव प्रमाणत्वाच्छब्दप्रमाण एवान्तर्भावितत्वात् । एवं लौकिकलिङ्गानामपि लौकिकशब्दोन्नायकतया लौकिकशब्द एवान्तर्भावः । तादृशलिङ्गमप्येवमेवोदाहार्यम् ॥

 वाक्यं यथा--

 अघनिष्कृतिप्रकरणे प्रबलं निश्चित्य तावकं वाक्यम् । जननि वृणे शरणं त्वां प्रकरणतो वाक्यमेव हि बलीयः ॥ २०९७ ॥

 अघनिष्कृतिप्रकरणे प्रायश्चित्तप्रसक्तौ सत्यां तावकं वाक्यं--

‘प्रायश्चित्तप्रसङ्गे तु सर्वपापसमुद्भवे ।
मामेकां देवदेवस्य महिषीं शरणं व्रजेत् ॥

 इति लक्ष्मीतन्त्रोक्तं त्वद्वाक्यं प्रबलं निश्चित्य हे जननि श्रीः! त्वां शरणं वृणे । हि यस्मात् प्रकरणतः उभयाकाङ्क्षालक्षणात् वाक्यं समभिव्याहारलक्षणं वाक्यं बलीयः प्रबलं आहुः । तान्त्रिका इति शेषः । तथाच पारमर्षं सूत्रम्-- ‘श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थवि