पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/६९

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
61
शब्दप्रमाणसरः (११५)

तादृशाभयमुद्रावहनाभावात्तथोक्तिः । यत् यस्मात् त्वं अभयं ब्रह्मेति श्रुतोऽसि ‘एतदमृतमेतदभयमेतद्ब्रह्म’ इति, ‘अभयं वै ब्रह्म’ इति च श्रुतिप्रथितोऽसि । अविद्यमानं भयं यस्मादिति पञ्चमीबहुव्रीहिः । तथाहि-- श्रुत्या अभिधानश्रुत्यैव परमे श्रेष्ठे तत्त्वे अर्थयाथात्म्ये निर्णीते सति लिङ्गं तदनुमापकं सामर्थ्यरूपं कोनु आद्रियते । श्रुत्यैवार्थनिर्धारणे दुर्बललिङ्गादरणं न क्रियत एवेति भावः । किंच 'नारायणः परं ब्रह्म तत्त्वं नारायणः परः’ इत्यादिश्रुत्या नारायणस्यैव परतत्वत्वे निर्णीते सति लिङ्गं शिवलिङ्गं कोनु नामाद्रियते । श्रुत्यर्थयाथात्म्यवेत्ता नारायणादन्यं रुद्रादिकं परतत्त्वतया नाद्रियत इत्यर्थोsपि प्रतीयते । अत्र श्रीनिवासस्य ‘अभयम्’ इति श्रुत्या अभयमुद्राधारणरूपलिङ्गानावश्यकत्वं समर्थितम् ॥

 यथावा--

 श्रुतिराह श्रीपतिरिति मामाभ्यां किमिति शङ्खचक्रे प्राक् । अजहाः किमीहगिरीन्दो श्रौतेऽर्थे न खलु लिङ्गमाद्रियते ॥ २०९५ ॥

 हे अहिगिरिन्दो! श्रुतिः ‘ह्रीश्च ते लक्ष्मीश्च पत्न्यौ’ इत्यादिश्रुतिः मां श्रीपतिरित्याह । आभ्यां शङ्खचक्राभ्यां मम किं साध्यं श्रीपतित्वस्य श्रुत्यैव निर्णये शङ्खचक्रधारणरूपलिङ्गेन किं प्रयोजनमिति प्राक् पूर्वं शङ्खचक्रे अजहाः अत्याक्षीः किमित्युत्प्रेक्षा । तथाहि श्रुते निरपेक्षरवसिद्धेऽर्थे लिङ्गं नाद्रियते तान्त्रिक्तैरिति शेषः । अत्राप्युदाहृतश्रुत्या शङ्खचक्रधारणानावश्यकता समर्थिता । अत्रान्यहेतुकश्शङ्खचक्रत्याग उक्तहेतुकस्संभाव्यते । अत्र कस्यचिद्राज्ञश्शत्रुविजयाय भगवान् श्रीनिवासश्शङ्खचक्रे व्यतारीदिति पौराणिकी कथाऽनुसंहिता ॥