आत्मतुष्टिप्रमाणं यथा--
भक्तिः प्रपत्तिरथवा भवदाप्तेस्साधने स्मृते तदपि । प्रपदन एव विशेषात्परितोषोऽस्मादृशां वृषाद्रिमणे ॥ २०९२ ॥
अत्र--
भक्त्या परमया वाऽपि प्रपत्त्या वा महामुने । |
इति विकल्पितयोर्भक्तिप्रपत्त्योः प्रपदन 'एवास्मादृशां प्रवृत्तावात्मतुष्टिरूपं प्रमाणमुपन्यस्तम् ॥
एवं प्रमाणं श्रुतिलिङ्गादिकमपि मीमांसकोक्तं प्रमाणं संभवदिहोदाहार्यम् ॥
तत्र श्रुतिर्यथा--
नाम्नैव हरिरसि त्वं दुरितं हरसे किमत्र लिङ्गेन । स्वकरप्रकोष्ठकङ्कणसमीक्षणे न खलु दर्पणापेक्षा ॥ २०९३ ॥
अत्र श्रीनिवासस्य हरिरित्यभिधानश्रुत्या सकलदुरितहारित्वं समर्थितम् । ‘श्रुतिर्नाम निरपेक्षरवः' इत्याहुस्तन्त्रविदः ॥
यथावा--
धत्से नाभयमुद्रामभयं ब्रह्मेति यच्छ्रुतोऽसि हरे । श्रुत्या परमे तत्त्वे निर्णीते को नु लिङ्गमाद्रियते ॥ २०९४ ॥
हे हरे श्रीनिवास! त्वं अभयमुद्रां ऊर्ध्वाग्राङ्गुळिकपाणितलप्रदर्शनरूपामभयसूचनीं मुद्रां न धत्से न धारयसे । श्रीनिवासस्यावाक्कृताग्राङ्गुळिककरतलप्रदर्शनरूपवरदानसुचकमुद्रावहनेन