पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/६६

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
58
अलंकारमणिहारे

 यः हंसः यतिविशेषः भानुश्च । हरौ भगवति विषये दृष्टिः उपासनात्मकज्ञानं यस्य स तथोक्तः । पक्षे हरौ सिंहराशौ दृष्टिर्यस्य तथोक्तः कुम्भराशिस्थस्सन्निति भावः । तत्रावस्थितस्यैव तस्मात्सप्तमे सिंहे दृष्टिसंभवात् ‘पश्यन्ति सप्तमान् सर्वे' इति हि ज्योतिर्विदः । सः यतिविशेषः महार्चिस्सत्क्रियाञ्चितः महत्या अर्चिषः आतिवाहिकाद्यभूतस्याग्नेः सत्क्रियया सत्कारेण अञ्चितः युक्तः क्रमतः अर्चिषोऽहरह्न आपूर्यमाणपक्षम्' इत्याद्युक्तदिनपूर्वपक्षादिक्रमेण उच्चपदस्थः परस्मिन् पदे स्थितः भविता । पक्षे सः कुम्भराशिगतो भानुः क्रमतः मीनराशिप्राप्तिपूर्वकं सत्क्रियाञ्चितः संश्चासौ क्रियः मेषराशिः ‘क्रियताबुरुजतुमकुलीयलेयपाथोनजूककौर्प्याख्याः’ इति ज्योतिर्विद्भिः मेषादीनां क्रमेण क्रियादिसंज्ञाया उक्तत्वात् । तस्मिन् अञ्चितः गतस्सन् उच्चपदस्थः उच्चस्थानस्थितः ‘अजवृषभ' इत्यादिना मेषस्य तदुच्चस्थानतोक्तिः । अतएव महार्चिः महादीप्तिः ‘स्वोच्चे प्रदीप्तः' इति विद्यामाधवोक्तेः । भविता । स्पष्टमन्यत् । अत्राप्यभिमतेऽर्थे ज्यौतिषस्य प्रमाणता ॥

 यथावा--

 कवयस्तवोपमानं कथयन्ति हरिन्मणिं हरिमणिं च । अनयोर्न वर्णभेदो यदुच्यते कृष्ण तन्न खलु मिथ्या ॥ २०९० ॥

 हे कृष्ण! नीलनीरदश्यामलेति भावः । कवयः हरिन्मणिं मरकतं हरिमणिं इन्द्रनीलं च तव उक्तवर्णस्य भवतः उपमानं कथयन्ति कथं हरिन्नीलवर्णयोरुक्तरत्नयोश्श्यामलवर्णस्य तव चोपमानोपमेयभाव इत्याशङ्क्य समाधत्ते-- अनयोरिति । अनयोः हरिन्मणिहरिमण्योः वर्णभेदः नेति यदुच्यते कविभिरिति शेषः ।