पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
57
शब्दप्रमाणसरः (११५)

स्वाभिमतार्थविरोधितया तदधिक्षेपायोपन्यास इति पूर्वस्माद्विच्छित्तिविशेषः ॥

 यथावा--

 त्वयि विदधानो मैत्रीं द्विजराजो बुधसुहृद्भवत्यनरिः । जगति हरेऽशेषसमो धामनिधे ज्यौतिषं प्रमाणमिह ॥ २०८८ ॥

 धामनिधे हे तेजोनिधे हे हरे भगवन्! पक्षे हे भास्वन्नित्यर्थः । त्वयि भगवति भानौ च मैत्रीं शरणागतिं ‘विदितस्स हि धर्मज्ञश्शरणागतवत्सलः । तेन मैत्री भवतु ते' इत्यत्र मैत्रीशब्दस्य शरणागत्यर्थकतया व्याख्यानात् । अन्यत्र सुहृत्त्वं विदधानः द्विजराजः ब्राह्मणमूर्धन्यः चन्द्रमाश्च । चन्द्रमसो भानुमन्मित्रत्वादिति भावः । बुधसुहृत् ब्रह्मवित्सौहार्दवान् सौम्यग्रहस्य मित्रं च, चन्द्रमसस्तन्मित्रत्वात् । अनरिः कामादिवैरिवर्गविधुरः । चन्द्रपक्षे शत्रुरहितः तस्य शत्रुग्रहविरहादिति भावः । जगति अशेषेषु समः 'तुल्यो मित्रारिपक्षयोः’ इत्युक्तक्रमेण सर्वत्र समदर्शी अन्यत्र शेषसम इति छेदः । शेषेषु उक्तग्रहातिरिक्तग्रहेषु समः भवति । अन्येषां सर्वेषां तत्समत्वादिति भावः । इह अस्मिन्नर्थे ज्यौतिषं ज्योतिश्शास्त्रं प्रमाणं ‘तीक्ष्णांशुर्हिमरश्मिजश्च सुहृदौ शेषास्समाश्शीतगोः' इति वराहमिहिराद्युक्तिः प्रमाणमिति भावः । अत्र श्लेषमहिम्ना स्वोक्तार्थस्थापनाय ज्यौतिषरूपस्मृतेः प्रमाणताप्रापणमिति पूर्वस्माद्विशेषः ॥

 यथावा--

 हरिदृष्टिर्यो हंसस्स महार्चिस्सत्क्रियाञ्चितः क्रमतः । उच्चपदस्थो भविता श्रुतिवज्ज्यौतिषमिह प्रमाणं चेत् ॥ २०८९ ॥

 ALANKARA IV.
7