पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/६२

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
54
अलंकारमणिहारे

लपदज्ञः नतु परमपदज्ञः अनाघ्रातभगवच्छास्त्रसत्संप्रदायगन्धश्शुष्कवैयाकरणः स्वाधीतव्याकरणमात्रदत्तदृष्टिरित्यर्थः । संदेग्धि 'पुमान् स्त्रिया’ इत्यनेन तल्लक्षणमात्रविशेषसद्भावे पुंस एवावशेषस्य विहितत्वात् कथं स्त्रीलिङ्गस्य विश्वंभराशब्दस्यावशेषस्स्यादिति संशेते इति भावः । अत्र केवलवैयाकरणेन केनचिदुपपादितार्थस्य व्याकरणविरोधं प्रदर्शयितुं भगवच्छास्त्रवचनार्थोपनिबन्ध इति विशेषः । श्लेषोत्तम्भितत्वं तु पूर्ववदेव ॥

 यथावा--

 एकमनेकानुगतं नित्यं सामान्यमिति वचो वितथम् । एकमनेकानुगतं नित्यमसामान्यमेव यद्ब्रह्म ॥ २०८४ ॥

 यद्वस्तु एकं अनेकेषु गवादिव्यक्तिषु अनुगतं अनुस्यूतं नित्यं नाशाप्रतियोगि च । तत् सामान्यं जातिरित्यर्थः । 'जातिर्जातं च सामान्यम्' इत्यमरः । इति वचः ‘नित्यमेकमनेकानुगतं सामान्यम्’ इति नैयायिकवचनं वितथम् । कुत इत्यत आह—- यत् यस्मात्कारणात् ब्रह्म एकं अनेकानुगतं नित्यमपि असामान्यं अजातिरेव । परमार्थतस्तु एकं असदृशं अनेकेषु चेतनाचेतनेषु अनुगतं अनुप्रविष्टं ‘यः पृथिव्यां तिष्ठन्, य आत्मनि तिष्ठन्, अन्तःप्रविष्टश्शास्ता जनानाम्' इत्यादिश्रुतेः । नित्यं ‘नित्यो नित्यानाम्’ इति श्रवणात् । असामान्यं अनितरसदृशं ‘न तत्समश्चाभ्यधिकश्च दृश्यते’ इति श्रुतेः । यद्वा असामान्यं अत्युत्कृष्टमित्यर्थः । ‘सामान्यास्तु परार्थमुद्यमपरास्स्वार्थाविरोधेन ये’ इत्यादौ सामान्यशब्द उत्कर्षापकर्षहीने हि प्रयुक्तः । अत्र स्वविवक्षितार्थप्रत्यनीकतां न्यायविद्वाक्यस्य