पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
46
अलंकारमणिहारे

विश्वंभरे विश्वंभरशब्दे मुमागमं मुमित्याकारकमागमं सक्तं संबन्धं स्फुटमाह ‘संज्ञायां भृतृवृजि’ इत्यादिना विश्वशब्दोपपदकात् भृञः खचि 'अरुर्द्विषदजन्तस्य' इति मुमागमं व्यधत्तेति । अत्र ‘यत्र विश्वम्’ इत्यादिश्रुतिप्रतिपादितायास्सकलजगदाधारतायाः पुरुषोत्तमैकनिष्ठत्वनिर्धारणे स्वाभिमते ‘यो लोकत्रयमाविश्य' इत्यादिस्मृतिः श्लेषभित्तिकाभेदाध्यवसायेन उदाहृतव्याकरणस्मृतिश्च प्रमाणतयोपदर्शिते इति पूर्वोदाहरणेभ्यो विशेषः ॥

 यथावा--

 यो वेद ब्रह्मासद्दुर्मेधास्तं ह्यसन्तमेवाहुः । आस्तां श्रुतिरिह मानं नालं किं नित्यमसिजिति हि सूत्रम् ॥ २०७२ ॥

 यः दुर्मेधाः ब्रह्म असदिति वेद सत् अस्तीति न वेदेत्यर्थः । अ इत्येतन्नञ्समानार्थकमव्ययं 'अभावे नह्यनो नापि' इत्यव्ययेष्वमरानुशासनात् । यद्वा असदिति समस्तं पदं यथाश्रुतमेव योज्यम् । ब्रह्म नास्तीति योवेदेति तदर्थः । अन्यत्तुल्यम् । अत्राद्ययोजना “ब्रह्मविषयकज्ञानासद्भावसद्भावाभ्यामात्मनाशमात्मसत्तां च वदति” इति 'असन्नेव स भवति' इति श्रुत्यर्थवर्णनपरमहासिद्धान्तस्थश्रीभाष्यतात्पर्यानुरोधेन । द्वितीया तु ‘आनन्दमयसदसत्त्वज्ञानान्मोक्षसंसारौ भवतः' इति प्रकृतश्रुत्यर्थवर्णनपरोपनिषद्भाष्यानुरोधेन । तं दुर्मेधसं दुर्बुद्धिं दुर्मेधश्शब्दं च असन्तं असाधुमेव अन्यत्र अस् इति वर्णान्तमेव आहुः । इह अस्मिन्नर्थे श्रुतिः ‘असन्नेव स भवति असद्ब्रह्मेति वेद चेत्' इति श्रुतिः मानं प्रमाणं आस्मां तिष्ठतु