त्रानुकूला । ऋषय इति बहुवचनान्त ऋषिशब्दः परमात्मपरतया तथा प्राणाः’ इत्यधिकरणे अभाषि । आह वदति ॥
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । |
इति गायन् भगवान् बिभर्तीत्यनेन ‘यत्र विश्वं भवत्येकनीडम्' इति श्रुतिं नारायणपरामेवाहेत्यर्थः । तथाह्यत्रोपबृंहणे 'परमात्मेत्युदाहृतः' इत्यनेन-- 'तस्याश्शिखाया मध्ये परमात्मा व्यवस्थितः’ इति श्रुतिः स्मार्यते । ‘यो लोकत्रयमाविश्य' इत्यनेन 'यच्च किंचित्' इत्यादिकं व्याख्यातम् । "लोक्यत इति लोकः तत्त्रयं लोकत्रयं अचेतनं तत्संसृष्टश्चेतनः मुक्तश्चेति प्रमाणावगम्यमेतत्त्रयं य आत्मतयाऽऽविश्य बिभर्ति तस्माद्व्याप्याद्भर्तव्याच्चार्थान्तरभूतः” इति श्रीमद्गीताभाष्यम् । बिभर्तीत्याधारत्वोक्त्या ‘यत्र विश्वं भवत्येकनीडं, तत्सवितुर्वरेण्यं, ध्रुवमचलममृतं विष्णुसंज्ञं सर्वाधारं धाम’ इत्यादेरर्थ उक्तः । अव्ययशब्दोक्त्या ‘शाश्वतं शिवमच्युतम्' इत्याद्युक्तसंग्रहः । ईश्वरशब्द इह ‘व्याप्य नारायणस्स्थित:’ इत्युक्तव्याप्तेः ‘अन्तः प्रविष्टश्शास्ता’ इत्याद्यनुसारात्समस्तनियमनविशिष्टत्वं ‘अत्मेश्वरम्’ इत्युक्तानन्यनियाम्यत्वं चाभिप्रैतीति ‘पुरुषोत्तमः कः’ । इत्यत्र श्रीमत् स्तोत्रभाष्यम् । तस्मात् ‘यत्र विश्वं भवत्येकनीडम्’ इति श्रुतिं नारायणे स्वस्मिन्नेव तत्परामाह गीताचार्य इति सुष्ठूक्तम् ॥
अर्थान्तरं तु-- शब्दवित् व्याकरणवेत्ता ऋषिः पाणिनिः